SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ |पदवाच्यैराकारादिनिर्बुसतृतीयान्तसमासस्य यत्पदार्थस्य समक पदार्थस्य चान्यूनानतिरिक्तधर्मविशिष्टस्य रलप्रनायां निन्न| सिंगत्वादन्वय इति यत् समकमित्यादिक्रियाविशेषणत्वेन व्याख्येयम् । रत्नप्रजाकर्मकाकारादिनिरूपितयावदन्यूनान तिरितविषयताकज्ञानवान् न तादृशतावदन्यूनानतिरिक्तविषयताकदर्शनवान् केवलीति फलितोऽर्थः । यदि च तादृशस्य वि - | शिष्टदर्शनस्य निषेध्यस्याप्रसिद्धेर्न तन्निषेधः “ असतो एत्थि सेिहो ” इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रत्नाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञानं, न तादृशं केवलिकर्तृकं दर्शनमित्येव बोधः, सर्वनयात्मके जगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाभावादिति तु वयमालोचयामः । हेतुयौगपद्यादपि बलेनोपयोगयौगपद्यमापततीत्याह - "केवलनाणावरणखयजायं केवलं जहा नाणं । तह दंसणं पि जुवाइ | यिावरणरकयस्संते ॥ ३ ॥” स्पष्टा, नवरं निजावरणक्ष्यस्यान्त इति दर्शनावरणक्ष्यस्यानन्तरक्षण इत्यर्थः । न चैकदोजयावरणक्ष्येऽपि स्वजावहेतुक एवोपयोगक्रम इत्युक्तमपि सांप्रतं, एवं सति स्वजावेनैव सर्वत्र निर्वाहे कारणान्तरेछेदप्रसंगात्, कार्योत्पतिस्वभावस्य कारणेनैव तत्क्रमस्वभावस्य तत्क्रमेणैव, निर्वाह्यत्वाच्च । एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरण क्षयकार्यतावच्छेदकत्वादर्थ (त) स्तदवछिन्नोपयोगघ्यसिद्धिरित्यप्यपास्तम् । तत्सिद्धावपि तत्क्रमा| सिध्देरावरणघयक्ष्यकार्ययोः समप्राधान्येनार्थगतेरप्रसराच्च । न च मतिश्रुतज्ञानावरणयोरेकदा क्षयोपशमेऽपि यथा तदुप| योगक्रमस्तथा ज्ञानदर्शनावरणयोर्युगपत्येऽपि केव खिनामुपयोगक्रमः स्यादिति शंकनीयं तत्र श्रुतोपयोगे मतिज्ञानस्य हैतुत्वेन, शाब्दादौ प्रत्यक्षादिसामग्र्याः प्रतिबन्धकत्वेन च तत्संजवात् । अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभावप्रति
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy