________________
| क्यादपि तत्पदार्थतावच्छेदकस्यायोग्यत्वेनापरोक्षज्ञानासंभवाच्च, अयोग्यांशत्यागयोग्यांशोपादानानिमुखलक्षणावत्त्वमेव योग्यपदार्थत्वमित्युक्तौ च धार्मिकस्त्वमसीत्यादावपि शुधापरोक्ष विषयत्वे तद्व्यावर्तक विशेषणदानानुपपत्तिः । तथा च योग्य| लक्ष्यपरत्वमहे उदाहरणस्थानदौर्जन्यं । अयं च विषयोऽस्माकं पर्यायविनिर्मोकेन शुद्धद्रव्य विषयतापर्यवसायकस्य व्यनयस्येत्यलं ब्रह्मवादेन । किं च त्वंपदार्थाजेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वोक्तौ यूयं राजान इत्यतोऽखिलसंबोध्य विशेष्यकराजत्वप्रकारकापरोक्षशाब्दापत्तिः, तत्र तादृशमानसाच्युपगमे चान्यत्र कोsपराधः । एतेनैकवचनान्तत्वपदार्थग्रहणेsपि न निस्तार एकस्मिन्नैव यूयमिति प्रयोगेऽगतेश्चैकाभिप्रायकत्वं, पदग्रहणे च तत्तदभिप्रायकशब्दत्वेन तत्तवाब्दबोधहेतुत्वमेव युक्तम् । श्रत एव वाक्यादपि प्रव्यार्थादेशादखरुः, पदादपि च पर्यायार्थादेशात् सखमः शाब्दबोध इति जैनी शास्त्रव्यवस्था । तस्मान शब्दस्यापरोक्षज्ञानजनकत्वम् । एतेनापरोक्षपदार्थाजेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वं अत एव शुक्तिरियमिति वाक्यादाहत्य रजतत्रमनिवृत्तिः, एवं च चैतन्यस्य वास्तवापरोक्षत्वादपरोक्षज्ञानजनकत्वं महावाक्यस्येत्यपि निरस्तम्, वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या तत्त्वमस्यादिवाक्ये संजवेऽपि दशमस्त्वमसीत्यादावसंभवान्निवृत्ताज्ञान|विषयत्वस्य च शाब्दबोधात्पूर्वमभावात् यदा कदाचिन्निवृत्ताज्ञानत्वग्रहणे पर्वतो वह्निमानित्यादिवाक्यानामप्यपरोक्षस्वरू| पविषयतयाऽपरोक्षज्ञानजनकत्वप्रसंगात् “यतो वा इमानि भूतानि जायन्ते” “सत्यं ज्ञानमनन्तं" इत्यादिवाक्यानामपरोक्षस्वरूपविषयतयाऽपरोक्षज्ञानजनकत्वे महावाक्यवैयर्थ्यापाताच्च । किं चैवं घटोऽस्तीतिशाब्दे चाक्षुषत्वमप्यापतेत्, अप|रोक्षपदार्थानेदपरशब्दादिवापरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि च प्रसज्येत । एवं च निन्नविषयत्वा