________________
श्रुतनिश्चि(श्रितातिरिक्त एवेति विजावनीयम् स्वसमयनिष्णातैः।ब्रझाकारबोधस्य मानसत्वे "नावेदविन्मनुते तं बृहंत वेदेनैव तपेदितव्यं तं त्वौपनिषदं पुरुष पृवामीत्यादिश्रुतिविरोध इति चेलाब्दत्वेऽपि “यघाचानन्युदितं, न चक्षुषा गृह्यते, नापि वाचा, यतो वाचो निवर्तन्ते" इत्यादिश्रुतिविरोधस्तुड्य एव । अथ वाग्गम्यत्वनिषेधक श्रुतीनां मुख्यवृत्त्यविषयत्वावगाहिवेनोपपसिर्जहदजहमक्षणयैव ब्रह्मणि महावाक्यगम्यत्वप्रतिपादनात् , मनसि तु मुख्यामुख्यानेदानावात् “यन्मनसा जन मनुते" इत्यादि विरोध एव “सर्वे वेदा यत्रैक जवन्ति स मानसीन आत्मा मनसैवानुअष्टव्यः” इत्यादिश्रुतौ मानसी
नत्वं तु मनस्युपाधावुपलन्यमानत्वं, न तु मनोजन्यसाक्षात्कारत्वं, मनसैवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्वप्रतिपादना मनसो दर्शनकर्तृत्वमाह, न करणतां, औपनिषदसमाख्याविरोधात् । “कामः संकल्पो विचिकित्सा श्रधाऽश्रया तिरधृतिहींधीनीरित्येतत्सर्व मनस एवेति" श्रुतौ मृघट तिवछुपादानकारणत्वेन मनःसामान्याधिकरण्यप्रतिपादनात् , तस्य निमित्तकारणत्वविरोधाच्चेति चेन्न, कामादीनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेर्मनःपरिणतात्मलक्षणनावमनोविषयताया एव न्याय्यत्वात् , “मनसा ह्येव पश्यति मनसा शृणोति" इत्यादौ मनःकरणस्यापि श्रुतेदीर्घकालिकसंज्ञानरूपदर्शनग्रहणेन चक्षुरादिकरणसत्त्वेऽपि तत्रैवकारार्थान्वयोपपत्तेः, त्वन्मतेपि ब्रह्मणि मानसत्वविधिनिषेधयोवृत्तिविषयत्वत
परक्तचैतन्याविषयत्वान्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वनावजंगप्रसंग एव स्पष्टं दूषणम् । न च प्रश्रम परोक्षशानं जनयतोऽपि शब्दस्य विचारसहकारेण पश्चादपरोदज्ञानजनकत्वमिति न दोष इति वाच्यम् , अर्धजरतीयन्यायापातात् । न खलु शब्दस्य परोदज्ञानजननस्वानान्यं सहकारिसहस्रेणाप्यन्यथा कर्तुं शक्यं आगन्तुकस्य स्वजावत्वा