________________
ज्ञान
॥ १५० ॥
त्वाप्रयोजिका, वास्तव विषयतायाः कुत्राप्यनंगीकाराद्व्यावहारिक्याश्च तुल्यत्वात् । न च ब्रह्मणि ज्ञानविषयताऽसंनवेऽपि ज्ञाने ब्रह्मविषयता तद्विबग्राहकत्वरूपाऽन्या वा काचिदनिर्वचनीया संभवतीति नानुपपत्तिः, विषयतैवाकारः प्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एवाज्ञान निवर्तकत्वं ज्ञानविषयस्वरूपाकारापरोक्षप्रमात्वस्य सर्वत्रानुगत - त्वात् । न चेदमित्याकारं घटाकारमिति शंकितुमपि शक्यं, आकारनेदस्य स्फुटतरसाक्षिप्रत्यक्ष सिद्धत्वादिति वाच्यम्, | ज्ञाननिष्ठाया श्रपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तन्निरूपकत्वधर्मसत्त्वे निर्धर्मकत्वव्याघातात्, उत्जयनिरूप्यस्य विषयविषयिभावस्यैकंधर्मत्वेन निर्वाहायोगात् । न च ब्रह्मण्यपि कहिपतविषयतोपगमे कर्मत्वेन न जमत्वापातः, स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात्, घटादौ हि विषयता स्वसमानसत्ताका घयोरपि व्यावहारिकत्वात्, ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्यादिति वाच्यम्, सत्ताया इव विष| यताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि बाधकाभावात्, परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववघयावहारिक निरूपितस्य धर्मस्य पारमार्थिके पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताद्युपलक्षणभेदेऽप्युपलक्ष्यमेकमेवेति न दोष इति चेद्विषयतायामप्येष एव न्यायः । एवं चानन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्यं प्रव्यार्थादेशादव्याहतमेव । तथा चान्यूनानतिरिक्तधर्मात्मषव्यस्वभावला नखक्षणमोक्षगुणेन जगवन्तं तुष्टाव स्तुतिकारः- “ जवबीजमनन्तमुज्जितं | विमखज्ञानमनन्तमर्जितम् । न च हीनकसोऽसि नाधिकः समतां चाप्यतिवृत्य वर्तसे ॥ १ ॥ इति । एतेन चैतन्यवि -
१ तमिवृत्तिकत्वधर्मसत्वे २ स्यैकनिष्ठत्वेन.
बिन्दुः
॥ १५० ॥