________________
इदमनिदं वा, प्रमेयमप्रमेयं वेत्यादिसंशयादर्शनेन तदनिवर्तकस्य तस्यासंग्रहादिति वाच्यम्, निष्प्रकारकसंशयानावेन निःष्प्रकारकाज्ञानासिध्या निष्प्रकारकब्रह्मज्ञानस्यापि तनिवर्तकत्वायोगादेकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरवचिन्नप्रकारतासंबन्धेनाधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च नमजनकाज्ञानविषयत्वं वाऽज्ञानविषयत्वमेव वाऽखमोपाधिर्वा ? न च विषयतयैव तत्त्वं युक्त, प्रमेयत्वस्य च केवखान्वयिनोनंगीकारान्न प्रमेयमिति ज्ञानाद् घटाद्याकाराज्ञाननिवृत्तिप्रसंग इति वाच्यं, व्यमिति ज्ञानात्तदापत्तेरवारणात् । न च तस्य व्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टाविषयत्वात्तधारणं, व्यत्वविशिष्टस्यैव घटावलेदेन घटत्वविशिष्टत्वात्सत्त्वविशिष्टब्रह्मवत्, विशिष्टविषयझानेन विशिष्ट विषयाज्ञाननिवृत्त्यन्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्मवैशिष्ट्यप्रसंगः। एतेनान्यत्र घटाझानत्वघटत्वप्रकारकप्रमात्वादिना नाश्यनाशकलावेऽपि प्रकृते ब्रह्माज्ञाननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणलावः, न तु ब्रह्मत्वप्रकारकति विशेषणमुपादेयं, गौरवादनुपयोगाविरोधाच्चेत्यपि निरस्तम्, विशिष्टब्रह्मण एव संशयेन विशिष्टाज्ञाननिवत्यर्थ विशेषोपरागणैव ब्रह्मज्ञानस्यान्वेषणीयत्वात्, शुक्तिरजतादिस्थखेऽपि विशिष्टाज्ञानविषयस्यैवाधिष्ठानत्वं समित्यत्राप्ययं न्यायोऽनुसतव्यः। किं च ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपन्नत्वात्तविषयज्ञानत्वमपि तत्र मुर्खनं, विषयता हि कर्मतेति तदंगीकारे तस्य क्रियाफखशाखित्वेन घटादिवजामत्वापत्तेः, तविषयज्ञानाजनकत्वे च तत्र वेदान्तानां प्रामाण्यानुपपत्तिः । न च तदज्ञाननिवर्तकतामात्रेण तविषयत्वोपचारः, अन्योऽन्याश्रयात् । न च कहिपता विषयता कर्म१ संशयाद्यदर्शनात्सामान्यमात्राप्रकारकाज्ञानानंगीकारेण तदनिवर्तकस्य तस्यासंग्रहादिति वाच्यं ( प्रत्यंतरे )