________________
ज्ञान
॥ १४९ ॥
त्वावचिन्नसत्तया वा प्रतिज्ञासस्तत्त्वज्ञप्रारब्धकार्यमिति चेत्तृतीया शक्तिर्व्यर्षा, यावद्विशेषाणां बाधितत्वे तेषां तथाप्रति - जासस्य सार्वज्ञान्युपगमं विनानुपपत्तेश्च द्वितीयशक्तिविशिष्टाज्ञाननाशात् संचितकर्म तत्कार्य च नश्यति, ततस्तृतीयशक्त्या | प्रारब्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृत्तिरिति चेन्न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसत्त्वधीः, न वा व्यावहारिकपारमार्थिकसत्त्वधीरिति तत्र किं चिदन्यदेव कल्पनीयं स्यात्, तथा च लोकशास्त्रवि रोध इति सुष्टुतं हरिजप्राचार्यैः- “ अग्निजखभूमयो यत्परितापकरा जवेऽनुभवसिद्धाः । रागादयश्च रौजा श्रसत्प्रवृत्त्या|स्पदं लोके ॥ १ ॥ परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे जवजव विगमौ कथं युक्तौ ॥ २ ॥ इत्यादि ” । तस्माद्वृत्तेर्व्यावहारिकसत्तयापि न निस्तारः । प्रपंचे परमार्थदृष्ट्येव व्यवहारदृष्ट्यापि सत्तान्तरा - नवगाहनादिति स्मर्तव्यम् । किं च निष्प्रकारकज्ञानस्य कुत्राप्यज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात्कथमज्ञान| निवृत्तिः ? ( किं च सप्रकारं निष्प्रकारं वा ब्रह्म अज्ञाननिवर्तकमिति वक्तव्यं, श्राद्ये निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्यायथार्थत्वान्नाज्ञान निवर्तकता, तस्य यथार्थत्वे नाषैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्राप्यज्ञान निवर्तकत्वादर्शनादेवानुङ्गावनार्थः " इति प्रत्यंतरपाठः ) न च सामान्यधर्ममात्राप्रकारकसमान विषयप्रमात्वमज्ञाननिवृत्तौ प्रयोजकं, प्रमेय| मिति ज्ञानेऽतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावतिव्याप्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे [ चानुगतमिति निष्प्रकारक ब्रह्मज्ञानस्यापि ब्रह्माज्ञान निवर्तकत्वं लक्षणान्वयात् । न च सामान्यधर्ममात्रप्रकारकज्ञांनेऽव्याप्तिः,
बिन्दुः
॥ १४९ ॥