SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ झान- ॥१४॥ बन वास्तविक स्तरयविचावस्याप्रत्यूहत्वामसत्यप्रतीत्यनुकू वदनं कः पिदध्यात् १ अनयैव जिया चैतन्यनिष्ठायाः प्रमाणजन्यापरोक्षान्तःकरणवृत्तेरेवाज्ञाननाशकत्वांगीकारेऽपि नदोषः, पारमार्थिकसत्तालावेऽपि व्यावहारिकसत्तांगीकारात् । न च स्वप्नादिवन्मिथ्यात्वापत्तिः, स्वरूपतो मिथ्यात्वस्याप्रयोजकत्वात् , विषयतो मिथ्यात्वस्य च बाधालावादसिधेः, धूमन्त्रमजन्यवह्नयनुमितेरप्यबाधितविषयतया प्रामाण्यानंगीकाराच्च, कहिपतेनापि प्रतिबिंबेन वास्तवबिंबानुमानप्रामाण्याच, स्वप्नार्थस्याप्यरिष्टादिसूचकत्वाच्च, कचित्तऽपलब्धमंत्रादे गरेऽप्यनरत्तेरवाभावेति तपस्विनोक्तमिति देतदप्यविचाररमणीयम् , त्वन्मते स्वमजागरयोर्व्यवहार विशेषस्यापि कर्तुमशक्यत्वात् , बाधालावेन ब्रह्मण श्व घटादेरपि परमार्थसत्त्वस्याप्रत्यूहत्वाच्च, प्रपंचासत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुगरदानात् । एतेनाज्ञाननिष्ठाः परमार्थव्यवहारप्रतिजाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः कहप्यन्ते, श्राद्यया प्रपंचे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, सा च श्रवणाधल्यासपरिपाकेन निवतते, ततो वितीयया शक्त्या व्यावहारिकसत्त्वं प्रपंचस्य प्रतीयते, वेदान्तश्रवणादन्यासवन्तो हि नेमं प्रपंचं पारमार्थिक पश्यन्ति, किं तु व्यावहारिकमिति, सा च तत्त्वसाक्षात्कारेण निवर्तते, ततस्तृतीयया शक्त्या प्रातिनासिकसत्त्वप्रतीतिः क्रियते, सा चान्तिमतत्त्वबोधेन सह निवर्तते, पूर्वपूर्वशक्तेरुत्तरोत्तरशक्तिकार्यप्रतिबन्धकत्वाच्च न युगपत्कार्यत्रयप्रसंगः, तथा चैतदभिप्रायां श्रुतिः-" तस्यानिध्यानाद्योजनात्तत्त्वजावायश्चान्ते विश्वमायानिवृत्तिरिति” । अस्या श्रयमर्थःतस्य परमात्मनोनिध्यानादनिमुखास्यानाच्छ्रवणान्यासपरिपाकादिति यावत्, विश्वमायाया विश्वारंजकाविद्याया निवृ-IN त्तिः, श्राद्यशक्तिनाशेन विशिष्टनाशात्, युज्यतेऽनेनेति योजनं तत्त्वज्ञानं तस्मादपि विश्वमायानिवृत्तिः, वितीयशक्ति ॥१४॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy