________________
| रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेवात्मात्मीयानिनिवेशाभावेन रागद्वेषोश्छेदात् संसारमूल निवृत्तिसंजवात्, आत्माव गतौ च तस्य नित्यत्वेन तत्र स्नेहात्तन्मूखतृष्णादिना क्लेशानिवृत्तेः । तदुक्तम्- “ यः पश्यत्यात्मानं तत्रास्यामिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्येति तृष्णा दोषांस्तिरस्कुरुते ॥ १ ॥ गुणदर्शी परितृप्यत्यात्मनि तत्साधनान्युपादत्ते । तेनात्मानिनिवेशो यावत्तावच्च संसारः ॥ २ ॥ इति ” । ननु यद्येवमात्मा न विद्यते, किं तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वहेतुप्रतिबधा ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यभ्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कथमुच्यते भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्त्ववेदी क्षणोऽनन्तरं विनष्टः सन्न कदाचनाप्यहं नूयो जविष्यामीति जानानः किमर्थं मोक्षाय यतत इति ? अत्रोच्यते - भगवान् हि प्राचीनावस्थायां सकलमपि जगदुःखितं पश्यंस्तद्दिधीर्षया नैरात्म्यक्षणिकत्वादिकमवगष्ठन्नपि तेषामुपकार्यसत्त्वानां निःक्वेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्न केवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च स्वसंत तिगत विशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते इति न किमप्यनुपपन्नमित्याहुः । तदखिलमज्ञान विलसितम् । श्रात्मानावे बन्धमोक्षाद्येकाधिकरणत्वायोगात् । न च सन्तानापेक्ष्या समाधिः, | तस्यापि कृष्णानतिरेके एकत्वासिद्धेः, एकत्वे च प्रव्यस्यैव नामान्तरत्वात्, सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः,
१ तृप्यति तृप्त्या. २ नमान्तरं तत्.