SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ज्ञान- चिन्मुः ॥१४६॥ तादर्शनादिति ध्येयम् । बार्हस्पत्यास्तु-रागादयो न लोजादिकर्मोदयनिबन्धनाः, किं तु कफादिप्रकृतिहेतुकाः । तथाहि, कफहेतुको रागः, पित्तहेतुको पेषः, वातहेतुकश्च मोहः । कफादयश्च सदैव सन्निहिताः, शरीरस्य तदात्मकत्वात् , ततो न सार्वज्ञमूखवीतरागत्वसंजव इत्याहुः । तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात्, दृश्यते हि वातप्रकृतेरपि रागषौ, कफप्रकृतेरपि षमोही, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसंगात् । न च स्वस्खयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणि कटपनानायं दोष इति वाच्यं, तदवान्तरबैजात्यावचिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चान्यासजनितप्रसरस्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि निरस्तम्, अत्यन्तस्त्रीसेवाप्परस्य दीणशुक्रस्यापि रागोजेकदर्शनात् , शुक्रोपचयस्य सर्वस्त्रीसाधारणानिखाषजनकत्वेन | कस्यचित् कस्यांचिदेव रागोजेक इत्यस्यानुपपत्तेश्च । न चासाधारण्ये रूपमेव हेतुः, ताहितायामपि कस्यचित्रागदर्शनात् ।। न च तत्रोपचार एव हेतुः, येनापि विमुक्तायां रागदर्शनात् । तस्मादन्यासदर्शनजनितोपचयपरिपाकं कमैव विचित्रस्वजावतया तदा तदा तत्तत्कारणापेदं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन पृथिव्यंबुजूयस्त्वे रागः, तेजोवायुनूयस्त्वे देषः, जलवायुज्यस्त्वे मोह इत्यादयोऽपि प्रतापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मनूतानां रागादीनां सम्यग्ज्ञानक्रियान्यां क्ष्येण वीतरागत्वं सर्वज्ञत्वं चानाविखमेव । शौचोदनीयास्तु-नैरात्म्यादिनावनैव ॥१४६॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy