________________
| प्रकारताकज्ञाने षोडशपदार्थविषयक विलक्षणमानसज्ञाने वा तत्त्वज्ञाननामधेये मनसः करणत्वं चाक्षुषादिसामग्री काल इव | लौकिकमानससामग्री कालेऽपि तादृशतत्त्वज्ञानानुपपत्तेस्तत्त्वज्ञानाख्यमानसे तदितरमानससामग्र्याः प्रतिबन्धकत्वं तत्त्वज्ञानरूपमानससामग्र्याश्च प्रणिधान रूपविजातीयमनःसंयोगघटितत्वं कम्पनीयमित्यनन्तमप्रामाणिक कल्पनागौरवम् । अस्माकं तु दुरितक्ष्यमात्रं तत्र कारणमिति लाघवम् । श्रत एवेन्द्रियज्ञानासाचिव्येन केवलमसहायमिति प्राचो व्याचक्षते । स चावरणाख्यदुरितक्षयोपि जावनातारतम्यात्तारतम्येनोपजायमानस्तदत्यन्तप्रकर्षादत्यन्तप्रकर्षमनुजवतीति किमनुपपन्नम् । तदादाकलं कोऽपि - " दोषावरणयोर्हानिर्निःशेषास्त्य तिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्ष्य इति ॥ १ ॥ " न च निंबाद्यौषधोपयोगात्तरतमभावापचीयमानस्यापि श्लेष्मणो नात्यन्तिकक्ष्य इति व्यभिचारः, तत्र निंबाद्योषधोपयो| गोत्कर्षनिष्ठा या एवापादयितुमशक्यत्वात्, तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवासेवनात्, अन्यथौषधोपयोगाधारस्यैव विनाशप्रसंगात्, चिकित्साशास्त्रं क्तिधातुदोषसाम्यमुद्दिश्य प्रवर्तते, न तु तस्य निर्मूलनाशं, अन्यतरदोषात्यन्तक्षयस्य मरणाविनाजावित्वादिति प्रष्टव्यम् । रागाद्यावरणापाये सर्वज्ञानं वैशद्यजाग्नवतीत्यत्र च न विवादो रजोनीदाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च रागादीनां कषमावरणत्वं कुब्यादीनामेव पौऊलिकानां तथात्वदर्शनादिति वाच्यम्, कुच्यादीनामपि प्रातिजादावनावारकत्वात्, ज्ञानविशेषे तेषामावरणत्ववच्चातीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम् । रागाद्यपचये योगिनामतीन्द्रियानुभवसंजवात्सौगलिकत्वमपि प्रव्यकर्मानुग| मेन तेषां नासिकम् । स्वविषयग्रहणक्ष्मस्य ज्ञानस्य तदग्राहकताया विशिष्टप्रत्ययसंबन्धपूर्वकत्वनियमासी तहृत्पूरपुरुषज्ञाने
१ विशिष्टद्रव्यसंबन्ध.