________________
वृत्ति अत्यन्तापकर्षवद्वृत्तित्वात् परिमाणत्ववदित्याद्यनुमानमेव । न चाप्रयोजकत्वं ज्ञानतारतम्यस्य सर्वानुभव सिङ्घत्वेन तद्विश्रान्तेरत्यन्तापकर्षोत्कर्षाच्यां विनाऽसंजवात् । न चेन्द्रियाश्रितज्ञानस्यैव तरतमभावदर्शनात्तत्रैवान्त्यप्रकर्षो युक्त इत्यपि शंकनीयं, अतीन्द्रियेऽपि मनोज्ञाने शास्त्रार्थावधारणरूपे शास्त्रजावनाप्रकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रिय| विषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिजनामधेये च तरतमभावदर्शनात् । नन्वेवं जावनाजन्यमेव प्रातिजवत्केवलं प्राप्तं, तथा चाप्रमाणं स्यात्, कामातुरस्य सर्वदा कामिनीं जावयतो व्यवहितका मिनी साक्षात्कार वनावनाजन्यज्ञानस्याप्रमाणत्वव्यवस्थितेः, श्रम न जावनाजन्यत्वं तत्राप्रामाण्यप्रयोजकं, किंतु वाधितविषयत्वं, जावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात् प्रकृते च न विषयबाध इति नाप्रामाण्यं, न च व्यवहितकामिनी विज्रमादौ दोषत्वेन जावनायाः क्लृप्तत्वात्तखान्यत्वेनास्याप्रामाण्यं, बाधित विषयत्वव दोषजन्यत्वस्यापि चमत्वप्रयोजकत्वात्, तथा चोक्तं मीमां| साजाष्यकारेण - " यस्य च दुष्टं कारणं यत्र च मिथ्येत्यादिप्रत्ययः स एव समीचीनो नान्य इति”, वार्तिककारेणाप्युक्तम्" तस्माद्बोधात्मकत्वेन, प्राप्ता बुद्धेः प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ १ ॥ इति " अत्र हि तुल्यवदेवाप्रामाण्यप्रयोजकश्यमुक्तं, तस्माद्वाधाजावेऽपि दोषजन्यत्वादप्रामाण्यमिति वाच्यं, जावनायाः क्वचिदोषत्वेऽपि सर्वत्र दोषत्वा निश्चयात्, अन्यथा शंखपी तत्वज्रमकारणीभूतस्य पीतव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्य प्रयोजकत्वं स्यादिति न किंचिदेतत् क्वचिदेव कश्चिद्दोष इत्येवांगीकारात्, विषयबाधेनैव दोषजन्यत्वकल्पनाच्च, दुष्टकारणजन्यस्याप्यनुमानादेर्वि|षयाबाधेन प्रामाण्याच्युपगमात्, अन्यथा परिभाषामात्रापत्तेः । मीमांसानाष्यवार्तिककाराच्यामपि बाधितविषयत्वव्या