SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ दाय मनःपर्यायज्ञानेऽतिव्याप्तिः, अवधित्वेन सांकर्येण तादृशजात्य सिद्धेः । न च पुजला रूपिए इति शाब्दबोधे रूपिस - | मव्याप्य विषयताकेऽतिव्याप्तिः, विषयतापदेन स्पष्टविशेषाकारग्रह्णादिति संक्षेपः । मनोमात्र साक्षात्कारि मनः पर्यायज्ञानम् । न च तादृशावधिज्ञानेऽतिव्याप्तिः, मनः साक्षात्कारिणोऽवधेः स्कन्धान्तरस्यापि | साक्षात्कारित्वेन तादृशावधिज्ञानासिद्धेः । न च मनस्त्वपरिणतस्कन्धालोचितं बाह्यमप्यर्थं मनः पर्यायज्ञानं साक्षात्करोतीति | तस्य मनोमात्रसाक्षात्कारित्वमसिद्धमिति वाच्यम्, मनोऽव्यमात्रालंबनतयैव तस्य धर्मिग्राहकमान सिद्धत्वात्, बाह्यार्थानां तु मनोजव्याणामेव तथारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणाच्युपगमात् । श्राह च जाष्यकार:- "जाणइ वनेणुमाणेणंति ” बाह्यार्थानुमाननिमित्तकमेव हि तत्र मानसमचतुर्दर्शनमंगी क्रियते, यत्पुरस्कारेण सूत्रे मनोषव्याणि जानाति पश्यति चैतदिति व्यवहियते । एकरूपेऽपि ज्ञाने प्रव्याद्यपेक्षयोपशमवैचित्र्येण सामान्यरूपमनोऽव्याकारपरिछेदापेक्षया पश्यतीति, विशिष्टतरमनोऽव्याकारपरिच्छेदापेक्षया च जानातीत्येवं वा व्याचक्षते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारिकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानुपदेशादिति | प्रष्टव्यम्। नव्यास्तु वाह्यार्थाकारानुमापकमनोऽव्या कारग्राहकं ज्ञानमवधिविशेष एव श्रप्रमत्तसंयम विशेषजन्यतावच्छेदकजाते| रवधित्वव्याप्याया एव (कल्पनात्) कपनाधर्मीत न्यायात् । इत्थं हि जानाति पश्यतीत्यत्र दृशेरवधिदर्शन विषयत्वेनैवोपपत्तौ लक्षणकपनगौरवमपि परिहृतं जवति।सूत्रे जेदाभिधानं च धर्मभेदाभिप्रायम्।यदि च संकल्पविकल्पपरिणतप्रव्यमात्रग्राह्यनेदात्तग्राहकं ज्ञानमतिरिक्तमित्यत्र निर्बन्धस्तदा घीन्द्रियादी नामपीष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्तजनक सूक्ष्मसंकटपजनन
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy