SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १४३ ॥ परिणामो भवति निसर्गः स्वनावश्चेति ” । यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एवाश्रयणीयः । तदि| दमभिप्रेत्याह महावादी सिद्धसेनः - "वैयर्थ्यातिप्रसंगाच्यां न मत्यभ्यधिकं श्रुतमिति ” इत्याहुः । ज्ञानत्वं रूपसमव्याप्य विषयताशा लिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं, रूपिसमव्याप्यविषयताशालिज्ञानं परमावधिज्ञानं "रुवगयं लहइ सबं " इति वचनात् तद्वृत्तिर्ज्ञानत्वव्याप्या जातिरवधित्वमवधिज्ञानमात्र इति लक्षणसमन्वयः । | समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगध्यापकविषयताकस्य केवलस्यरूपिव्यापक विषयताकत्वनियमात् तद्वृत्तिकेवलत्वमा दाय केवलज्ञानेऽतिव्याप्तिः, समव्याप्यत्वदाने त्वरूपिणि व्यभिचारात्केवलज्ञानविषयताया रूप्यव्याप्यत्वात्तन्निवृत्तिः। न च | परमावधिज्ञानेऽप्यलोके लोकप्रमाणासंख्यारूप्याकाशखंम विषयतोपदर्शनादसंभवः । यदि तावत्सु खंमेषु रूपित्रव्यं स्यात्तदा | पश्येदिति प्रसंगापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राप्रामाएयं, स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन | फलाबाधात् । एतेनासनावस्थापना व्याख्याता । बहिर्विषयताप्रसंजिका तारतम्येन शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मसू| मतरस्कन्धावगाहन फसवतीति न प्रसंगापादनवैयर्थ्यम् । यन्नाष्यं - "वहंतो पुण बाहिं लोगत्थं चेव पासई दवं । सुदुमयरं सुदुमयरं परमोही जाव परमाणुं ॥ १ ॥ " इति । श्रलोके लोकप्रमाणासंख्येयखंग विषयतावधेरिति वचने विषयतापदं | तर्कितरूप्यधिकरणताप्रसं जिततावद धिकरणकरूपिविषयतापरमिति न स्वरूपबाधोऽपीति तस्वम् । जातौ ज्ञानत्वव्याप्यत्व| विशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययावधिज्ञानमनः पर्यायज्ञानसाधारणजाति विशेषमा 1 बिन्दुः ॥ १४३ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy