________________
त्ववग्रहमात्रमेव मतिज्ञानं प्रसज्येत, धारणोत्तरं स्वसमानाकारश्रुतावश्यतावकहपनं तु स्ववासनामात्रविजूजितं, शब्दसंसष्टाया मतेरेव श्रुतत्वपरिलाषणं तुन पृथगुपयोगब्यापकमिति शाब्दज्ञानमेव श्रुतज्ञानं, न त्वपरोक्षमिन्छियजन्यमपीत्याहुः । नव्यास्तु श्रुतोपयोगो मत्युपयोगान्न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्ती तत्पार्थक्यकपनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेष जिज्ञासायां तन्मूलकमत्यपायांशप्रवृत्तौ न पृथगवग्रहकपनागौरवं, शाब्दसामान्यज्ञानस्यैव तत्रावग्रहत्वात् । न च शाब्देऽशाब्दस्य तत्सामग्र्या वा प्रतिबन्धकत्वध्रौव्यान्नेयं कल्पना युक्तेति वाच्यं, अशाब्दत्वस्य प्रतिबध्यतावच्छेदकत्वे प्रतियोगिकोटौ शब्दमूलमतिज्ञानस्यापि प्रवेशात्, अन्यथा श्रुतान्यन्तरीतमतिज्ञानोब्लेदप्रसंगात् ।। किं च शाब्दज्ञानरूपश्रुतस्यावग्रहादिक्रमवतो मतिज्ञानाभिन्नत्वोपगमेऽनुमानस्मृतितर्कप्रत्यनिशानादीनामपि तथात्वं स्यादित्यतिप्रसंगः, सांव्यवहारिकप्रत्यक्षत्वाजावस्यापि तेषु तुल्यत्वात् । यदि चावग्रहादिनेदाः सांव्यवहारिकप्रत्यक्षरूपस्यैव मतिज्ञानस्य सूत्रे प्रोक्ता, अनुमानादिकं तु परोक्ष्मतिज्ञानमर्थतः सिमितीप्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि | परोक्षमतिज्ञानमेवांगीक्रियता, किमर्धजरतीयन्यायाश्रयणेन । मत्या जानामि श्रुत्वा जानामीत्यनुजव एवानयोर्नेदोपपादक
इति चेन्न, अनुमाय जानामि स्मृत्वा जानामीत्यनुलवेनानुमानस्मृत्यादीनामपि दापत्तेः। अनुमितित्वादिकं मतित्वव्याजाप्यमेवेति यदीष्यते, शाब्दत्वमपि किं न तथा ? । मत्या न जानामीति प्रतीतिस्तत्र बाधिकेति चेन्न वैशेषिकाणां नानुमि
नोमीति प्रतीतेरिव शाब्दे तस्याविशेषविषयत्वात् । न च निसर्गाधिगमसम्यक्त्वरूपकार्यनेदान्मतिश्रुतज्ञानरूपकारणनेद इत्यपि सांप्रतं, तत्र निसर्गपदेन स्वजावस्यैव ग्रहणात्। यघाचकः-"शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः