________________
वेति न किंचिदनुपपन्नमनन्तधर्मात्मकवस्त्वन्युपगमे । अत एव वस्तुसदृशो ज्ञाने ज्ञेयाकारपरिणाम इति विलक्षणप्रामाण्याकारवादेऽपि न क्षतिः । एवं च ब्रमेऽरजतनिमित्तो रजताकारः, संवृतशुक्त्याकारायाः शुक्तरेव तत्राखंबनत्वात् , प्रमायां तु रजतनिमित्तश्त्याकारतयात्वस्य परतःस्वतोग्रहान्यां प्रामाण्याप्रामाण्ययोस्तदनेकान्त इति प्राचां वाचामपि विमर्शः कान्त एवेति अष्टव्यमान्यायालियुक्ता अपि यथाऽन्नावलौकिकप्रत्ययस्तधर्मस्य प्रतियोगितावच्छेदकत्वमवगाहमान एव तधर्मविशिष्टस्य प्रतियोगित्वमवगाहते, तथा ज्ञानलौकिकसाक्षात्कारोऽपितधर्मस्य विशेष्यताधवच्छेदकत्वमवगाहमान एव तधर्मविशिष्टस्य विशे प्यतादिकमवगाहत इति इदंत्वविशिष्टस्यैव विशेष्यत्वमवगाहेत, इदंत्वस्य विशेष्यतावच्छेदकत्वात्, न तुरजतत्वादिविशिष्टस्य | रजतत्वादेरतथात्वादित्यं नियमस्तु खौकिके । तेनोपनयवशादलौकिकतादृशसाक्षात्कारेऽपि न तिरिति वदन्तो विनोपनयं प्राथमिकानुव्यवसायस्य प्रामाण्याग्राहकत्वमेवाहुः। यदेव च तेषामुपनयस्य कृत्यं तदेवास्माकमीहायाः साध्यमिति कृतं प्रसंगेन। प्रकृतमनुसरामः। एताववग्रहाख्यौ व्यापारांशी, ईहानन्तरमपायः प्रवर्तते 'श्रयं घट एवेति' अत्र चासत्त्यादिजनितक्षयोपशमवशेन यावानीहितो धर्मस्तावान् प्रकारीनवति, तेनैकत्रैव 'देवदत्सोऽयं 'पाचकोऽयं' इत्यादिप्रत्ययनेदोपपत्तिः । इत्थं च रूपविशेषान्मणिः पद्मराग इत्युपदेशोत्तरमपि तदाहितवासनावतो रूपविशेषादनेन पद्मरागेण नवितव्यमितीहोत्तरमेवायं पद्मराग इत्यपायो युज्यते, उक्तोपदेशः पद्मरागपदवाच्यत्वोपमितावेवोपयुज्यते। अयं पद्मराग इति तु सामान्यावग्रहेहाक्रमेणैवेति नैयायिकानुयायिनः । घट इत्यपायोत्तरमपि यदा किमयं घटः सौवर्णो मात्ततॊ वेत्यादिविशेष जिज्ञासा प्रवर्तते, तदा पाश्चात्यापायस्योत्तरविशेषावगमापेक्ष्या सामान्याखंबनत्वाध्यावहारिकावग्रहत्वं, ततः सौवर्ण एवायमित्यादिरपायः, तत्राप्युत्त