________________
ज्ञान
॥ १३८ ॥
| रपि श्रुतत्वात् । अक्षरलानश्च यः शेषेष्वपीन्द्रियेषु शब्दार्थपर्यालोचनात्मकः, न तु केवलः, तस्येहेहादिरूपत्वात्, तमपि मुक्त्वेति सोपस्कारं व्याख्येयम् । नन्वेवं शेषेन्द्रियेष्वप्यक्षरलानस्य श्रुतत्वोक्तेः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्येत, मैवम्, तस्यापि श्रोत्रेन्द्रियोपलब्धिकल्पत्वादिति बहवः । श्रोत्रेन्द्रियोपलब्धिपदेन श्रोत्रेन्द्रियजन्य व्यंजनाक्षरज्ञानाहिता शाब्दी बुद्धिः, प्रव्यश्रुतपदेन च चक्षुरादीन्द्रियजन्यसंज्ञाक्षरज्ञाना हिता सा, अक्षरलाजपदेन च तदतिरिक्तश्रुतज्ञा|नावरणकर्मक्षयोपशमजनिता बुद्धिर्गृह्यत इति । सर्वसाधारणणे धारणाप्रायज्ञानवृत्तिः शब्दसंसृष्टार्थाकार विशेष एवानुगतलक्षणम् । त्रिविधाक्षर श्रुतानिधानप्रस्तावेऽपि संज्ञाव्यंजनयोऽव्यश्रुतत्वेन, लब्धिपदस्य चोपयोगार्थत्वेन व्याख्यानात् । तत्र चानुगतमुक्तमेव लक्षणमिति । इह गोवृषन्यायेन त्रिविधोपलब्धिरूपजावश्रुतग्रहणमिति त्वस्माकमाजाति । श्रवग्रहादिक| मवदुपयोगत्वेनापि च मतिज्ञान एव जनकता, न श्रुतज्ञाने, तत्र शाब्दोपयोगत्वेनैव हेतुत्वात्, मतिज्ञाने च- नानवगृहीतमीह्यते, नानी हितमपेयते, नानपेतं च धार्यते इति क्रमनिबन्धनमन्वयव्यतिरेक नियममामनन्ति मनीषिणः । तत्रावग्रहस्ये - | हायां धर्मिज्ञानत्वेन, तदवान्तरधर्माकारेहायां तत् सामान्यज्ञानत्वेन वा । ईहायाश्च तधर्मप्रकारतानिरूपिततवर्मिनिष्ठ सिद्धत्वा| ख्यविषयतावदपायत्वावचिन्ने तधर्मप्रकारता निरूपिततधर्मिनिष्ठसाध्यत्वाख्यविषयतावदी हात्वेन, घटाकारावच्चिन्न सिद्धत्वा| ख्यविषयतावदपायत्वावचिन्ने तादृशसाध्यत्वाख्यविषयतावदी हात्वेन वा, धारणायां चापायस्य समानप्रकारकानुजवत्वेन, | विशिष्टजेदे समान विषयकानुजवत्वेन वा कार्यकारणभावः । तत्रावग्रहो द्विविधो व्यंजनावग्रहार्थावग्रह नेदात् । तत्र व्यंज| नेन शब्दादिपरिणतव्यनिकुरंबेण व्यंजनस्य श्रोत्रेन्द्रियादेरवग्रहः संबन्धो व्यंजनावग्रहः, स च मलकप्रतिबोधकदृष्टा
बिन्दुः
॥ १३८ ॥