________________
ज्ञान
॥ १३७ ॥
कणफलव्याप्यतयैव श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेर्वाक्येऽपि क्रमिकतावद्बोधजनके तथात्वव्युत्पत्तिप्रतिसंधानवति व्युत्पत्तिमति पुरुषे न विरम्यव्यापारादिदूषणावकाशः। सोऽयमिषेोरिव दीर्घदीर्घतरो व्यापारो, यत्परः शब्दः स शब्दार्थ इति नयाश्रयणात् । एतेन न हिंस्यादित्यादिनिषेधविधौ विशेषविधिबाधपर्यालोचनयाऽनुमितौ व्यापकतानवच्छेदकेनापि विशेपरूपेण व्यापकस्येव, शाब्दबोधे तत्तद्विहितेतरहिंसात्वेन वृत्त्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेश इति निरस्तम् । उक्तबाधपर्यालोचनस्य प्रकृतोपयोगान्तर्भावेऽस्मयुक्तप्रकारस्यैव साम्राज्यात्, तदनन्तर्भावे च तस्य सामान्यवाक्यार्थबोधेन सह | मिलनाभावेन विशेषपर्यवसायकत्वासंभवात् । अव्यवहितत्रिणमध्ये एक विशेषबाधप्रतिसन्धानमेव सामान्यवाक्यार्थ| स्य तदितर विशेषपर्यवसायकमिति कल्पनायां न दोष इति चेन्न, चित्रक्षणाननुगमात्, पटुसंस्कारस्य पंचपक्षणव्यवधानेऽपि फलोत्पत्तेश्च, संस्कारपाटवस्यैवानुगतस्यानुसरणौचित्यात्, तच्च गृहीतेऽर्थे मतिश्रुतसाधारणविचारणोपयोग एवोपयुज्यते, अत एव सामान्यनिषेधज्ञाने विरोधसंबन्धेन विशेष विधिस्मृतावपि विचारण्या तदितरविशेषपर्यवसानम् । अपि च 'स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथमं स्वर्गत्वसामानाधिकरण्येनैव यागकार्यताग्रहोऽनन्तरं चानुगतान तिप्रसक्तकार्यगत जाति विशेषकरूपनं, तथा प्रकृतेऽपि हिंसात्यसामानाधिकरण्येन पापजनकत्वबोधेऽनन्तरं तप्रतहेतुतावच्छेदकानुग| तानतिप्रसक्तरूपं कपने किं बाधकं सर्वशब्दबलेन हिंसासामान्योपस्थितावपि तजतहेतुस्वरूपानुबन्धकृत विशेषस्य कप - नीयत्वात् । सैव च कल्पना वाक्यार्थबोधात्मिकेति न तमुछेदः । किं च पदार्थबोधाद्धिंसासामान्येऽनिष्टसाधनत्वग्रहे - हारविहारादिक्रियास्वनिष्टसाधनत्वव्याप्यहिंसात्वारोपेणानिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः, तस्य युक्त्या
बिन्दुः
॥ १३७ ॥