________________
पिस्सियमियरं पुण अणिस्सिअं मश्चतकं तं ॥१॥ इति"। अपूर्वचैत्रादिव्यक्तिबुधौ त्वौत्पत्तिकी त्वमेवाश्रयणीयम् । ऐत्रियकश्रुतज्ञानसामान्ये धारणात्वेन, तदिन्जियजन्यश्रुते तदिन्जियजन्यधारणात्वेनैव वा, हेतुत्वात् । प्रागनुपलब्धेऽर्थे | श्रुतज्ञानाहितवासनाप्रबोधानावेन श्रुतनिश्रितज्ञानासंजवात् , धारणायाः श्रुतहेतुत्व एव च मतिश्रुतयोर्लब्धियोगपद्येप्युपयोगक्रमः संगन्नते, प्रागुपलब्धार्थस्य चोपलंने धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयाछुतनिश्रितत्वमावश्यकं, धारणादिरहितानामेकेन्जियादीनां त्वाहारादिसंज्ञान्यथानुपपत्त्यान्तर्जट्पाकारविवदितार्थवाचक शब्दसंस्पृष्टार्थज्ञानरूपं श्रुतज्ञानं क्योपशममात्रजनितं जात्यन्तरमेव, आप्तोक्तस्य शब्दस्योहाख्यप्रमाणेन पदपदार्थशक्तिग्रहानन्तरमाकांदाज्ञानादिसाचिव्येन जायमानं तु ज्ञानं स्पष्टधारणाप्रायमेव, शाब्दबोधपरिकरीनूतश्च यावान् प्रमाणान्तरोत्यापितोऽपि बोधः सोऽपि सर्वः श्रुतमेव । अत एव पदार्थवाक्यार्थमहावाक्याथैदंपर्यार्थनेदेन चतुर्विधवाक्यार्थझाने ऐदंपर्यार्थ निश्चयपर्यन्तं श्रुतोपयोगव्यापारात् सर्वत्र श्रुतत्वमेवेत्यनियुक्तैरुक्तमुपदेशपदादौ । तत्र “सवे पाणा सवे आ ण हंतवा" इत्यादौ यथाश्रुतमात्रप्रतीतिः पदार्थबोधः। एवं सति हिंसात्वावछेदेनानिष्टसाधनत्वप्रतीतेराहारविहारदेवार्चनादिकमपि प्राणोपघातहेतुत्वेन हिंसारूपत्वादकर्तव्यं स्यादिति वाक्यार्थबोधः । यतनया क्रियमाणा आहारविहारादिक्रिया न पापसाधनानि, चित्तशुद्धिफलत्वात् ,अयतनया क्रियमाणं तु सर्व हिंसान्तावात् पापसाधनमेवेति महावाक्यार्थबोधाआझैव धर्मे सार इत्यपवादस्थवेऽपि गीतार्थयतनाकृतयोगिकारणपदैनिषिधस्याप्यपुष्टत्वं,विहितक्रियामात्रे च स्वरूपहिंसासंजवेऽप्यनुबन्धहिंसाया अजावान्न दोषलेशस्याप्यवकाश इत्यैदंपर्यार्थबोधः । एतेषु सर्वेष्वेकदीर्घोपयोगव्यापारान्न श्रुतान्यज्ञानशंका, ऐदंपर्यबोधल