SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १३६ ॥ मनःपर्यायनेदाच्चतुर्विधं क्षायोपशमिकं ज्ञानं, पंचमं च क्षायिकं केवलज्ञानमिति पंचप्रकारा ज्ञानस्य । तत्र मति - ज्ञानत्वं श्रुताननुसार्यन तिशयितज्ञानत्वं अवग्रहादिक्रमवडुपयोगजन्यज्ञानत्वं वा, अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसार्येवेति न तयोरतिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसंबन्धप्रतिसंधानजन्यज्ञानत्वं तेन न सविकल्पकज्ञानसामग्री मात्रप्रयोज्यपद विषयताशालिनी हापायधारणात्मके मतिज्ञानेऽव्याप्तिः । ईहादिमतिज्ञाननेदस्य श्रुतज्ञानस्य च | साक्षरत्वाविशेषेप्ययं घट इत्यपायोत्तरमयं घटनामको न वेति संशयादर्शनात्, तत्तन्नाम्नोऽप्यपायेन ग्रहणात्, तःधारणोपयोगे इदं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य इति पदपदार्थसंबन्धग्रहस्यापि धौव्येण, तकनितश्रुतज्ञानस्यैव श्रुतानुसा| रित्वव्यवस्थितेः । अत एव धारणात्वेन श्रुतहेतुत्वात् “मपुत्रं सु" इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः, “न मई सुपुधिया" इत्यनेन च मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽनिहितः संगछते । कथं तर्हि श्रुतनिश्रिताश्रुतनि | श्रितभेदेन मतिज्ञानद्वैविध्यानिधानमिति चेडुच्यते - स्वसमानाकार श्रुतज्ञानाहितवासनाप्रबोधसमानकालीनत्वे सति श्रुतो|पयोगाजावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदं, उक्तवासनाप्रत्रोधो धारणादार्थ्यायोपयुज्यते श्रुतोपयोगाभावश्च मतिज्ञानसामग्री संपादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाच्छ्रुतज्ञानस्यैवापत्तेः, मतिज्ञानसामग्र्याः श्रुतज्ञानोत्पत्ति| प्रतिबन्धकत्वेऽपि शाब्देवास्थानीयस्य तस्योत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत्, श्रुतज्ञानजन्यस्मरणमपि |च श्रुतज्ञानमध्य एव परिगणनीयम् । उक्तवासनाप्रबोधासमानकालीनं च मतिज्ञानमौत्पत्तिक्यादिचतुर्भेदमश्रुतनिश्रितमि| त्यभिप्रायेण विविधजागे दोषाभावः । तदिदमाह महाजाप्यकार:- “ पुबिं सुपरिकम्मियमइस्स जं संपयं सुनाई । तं बिन्दुः ॥ १३६ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy