SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ त्वानन्तानुबन्ध्यादिप्रकृतीनां प्रदेशोदये क्षायोपशमिको जावोऽविरुयो, न विपाकोदये, तासां सर्वघातिनीत्वेन तप्रसस्पर्धकस्य तथाविधाध्यवसायेनापि देशघातितया परिणमयितुमशक्यत्वासस्य देशघातितया परिणामे तादात्म्येन देशघातिन्या हेतुत्वकटपनात् । विपाकोदयविष्कनणं तु तासु सर्वघातिरसस्पर्धकानां दायोपशमिकसम्यक्त्वादिलब्ध्यनिधायकसिद्धान्तबलेन क्योपशमान्यथानुपपत्त्यैव तथाविधाध्यवसायेन कट्पनीयम् । केवलज्ञानकेवलदर्शनावरणयोस्तु विपाकोदयविष्कजायोग्यत्वे स्वजाव एव शरणमिति प्राञ्चः । हेत्वनावादेव तदलावस्तछेतुत्वेन कहप्यमानेऽध्यवसाये तत्क्ष्यहेतुत्वकल्पनाया एवौचित्यादिति तु युक्तं, तस्मान्मिथ्यात्वादिप्रकृतीनां विपाकोदये न श्योपशमसंजवः, किं तु प्रदेशोदये । न च सर्वघातिरसस्पर्धकप्रदेशा अपि सर्वस्वघात्यगुणघातनस्वन्नावा इति तत्प्रदेशोदयेऽपि कथं कायोपशमिकलावसंलव इति वाच्यम् , तेषां सर्वघातिरसस्पर्धकप्रदेशानामध्यवसायविशेषेण मनाग्मन्दानुनावीकृतविरखवेद्यमानदेशघातिरसस्पर्धकेष्वन्तःप्रवेशितानां यथास्थितस्वबलप्रकटनासमर्थत्वात् । मिथ्यात्वाद्यबादशकषायरहितानां शेषमोहनीयप्रकृतीनां तु प्रदेशोदये विपाकोदये वा योपशमोऽविरुधः, तासां देशघातिनीत्वात्, तदीयसर्वघातिरसस्य देशघातित्वपरिणामे हेतुश्चारित्रानुगतोऽध्यवसायविशेष एव अष्टव्यः, परं ताः प्रकृतयोऽध्रुवोदया इति तधिपाकोदयानावे कायोपशमिकनावे विज़ुलमाणे, प्रदेशोदयवत्योऽपि न ता मनागपि देशघातिन्यः । विपाकोदये तु वर्तमाने झायोपशमिकलावसंजवे मनाग्माखिन्यकारित्वाद्देशघातिन्यस्ता जवन्तीति संदेपः । विस्तरार्थिना तु मत्कृतकर्मप्रकृतिविवरणादिविशेषग्रन्था अवलोकनीयाः। उक्ता क्योपशमप्रक्रिया । इत्थं च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुतावधि
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy