________________
ज्ञान
॥ १३५ ॥
तु
| परिणामः कदाचिद्दिशिष्टगुणप्रतिपत्त्या कदाचिच्च तामन्तरेणैव स्यात्, नवप्रत्ययगुणप्रत्ययत्नेदेन तस्य द्वैविध्योपदर्शनाव | मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपत्तावेव तथास्वजावानामेव बन्धकाले तेषां बन्धनात्, चतुर्दर्श|नावरणादेरपि तत्तदिन्द्रियपर्याध्यादिघटितसामग्र्या तथापरिणामः । मतिश्रुतावरणाचतुर्दर्शनावरणान्तरायप्रकृतीनां सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकक्षायोपशमिको जावो संमिश्री प्राप्येते, न केवल औदयिक इति उक्तं पंचसंग्रहमूलटीकायाम् । एतच्च तासां सर्वघा तिरसस्पर्धकानि येन तेनाध्यवसायेन देशघा - तीनि कर्तुं शक्यन्ते इत्यन्युपगमे सति उपपद्यतेऽन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामनिवृत्ति| वादरायायाः संख्येयेषु जागेषु गतेष्वेव संत्रात्तदर्वाग् मतिज्ञानाद्यजावप्रसंगः, तदभावे च तद्वलसन्यतदवस्थालाजानु| पपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवाभावप्रसंगात् । एवं मतिश्रुताज्ञानाच सुर्दर्शनादीनामपि क्षायो| पशमिकत्वेन जानात्सर्वघा तिरसस्पर्धकोदये तदलानाद्देशघातिरसस्पर्धकानां चार्वागबन्धादध्यवसायमात्रेण सर्वघातिनो | देशघातित्वपरिणामानन्युपगमे सर्वजीवानां तल्लानानुपपत्तिरिति नावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पर्ध| कानां सर्वघातिनां देशघातितया परिणामस्तदार्वाग्दशायां तद्बन्ध एव किं प्रयोजनमिति चेत्तत्किं प्रयोजनक्षतिनिया सामग्री कार्य नार्जयतीति वक्तुमध्यवसितोऽसि ? । एवं हि पूर्णे प्रयोजने दृढदंमनुन्नं चक्रं न भ्राम्येत्, तस्मात्प्रकृते हेतुस| माजादेव सर्वघा तिरसस्पर्धकबन्धौपयिकाध्यवसायेन तद्बन्धे तत्तदध्यवसायेन सर्वदा तद्देशघातित्वपरिणामे च बाधकानावः । तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम्। मोहनीयस्य तु मिथ्या
बिन्दुः
॥ १३५ ॥