SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ज्ञान ॥ १३४ ॥ सर्वघातीन्येव भवन्ति, उक्तशेषाणां पंचविंशतिघातिप्रकृतीनां देशघातिनीनां रसस्पर्धकानि यानि चतुःस्थानकानि यानि च त्रिस्थानकानि तानि सर्वघातीन्येव, दिस्थानकानि तु कानिचित् सर्वघातीनि कानिचिच्च देशघातीनि, एकस्थानका नि तु सर्वाण्यपि देशघाती न्येव । तत्र ज्ञानावरणचतुष्कदर्शनावरणत्रयसंज्वलनचतुष्कान्तरायपंचकपुंवेदलक्षणानां सप्तदशप्रकृतीनामेकवित्रिचतुःस्थानकरसा बन्धमाश्रित्य प्राप्यन्ते, श्रेणिप्रतिपत्तेरर्वागासां दिस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धात् । श्रेणिप्रतिपत्तौ त्वनिवृत्तिवादरायायाः संख्येयेषु नागेषु गतेष्वत्यन्त विशुद्धाध्यवसायेनाशुजत्वादासा मेकस्थानकरसस्यैव बन्धात् शेषास्तु शुभा श्रशुना वा बन्धमधिकृत्य दिस्थानकरसा स्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न कदाचनाप्येकस्थानकरसाः । यत उक्तं- "सप्तदशव्यतिरिक्तानां हास्याद्यानामशुनप्रकृतीनामेकस्थानकरसवन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां जवत्येव न, यदा त्वेकस्थानकरसबन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृत्तिवादराधायाः संख्येयेज्यो जागेभ्यः परतो जायते, तदा बन्धमेव न ता आयान्तीति " । न च यथा श्रेष्यारोहेऽ निवृत्तिबादराधायाः संख्येयेषु जागेषु गतेषु परतोऽतिविशुधत्वान्मतिज्ञानावरणादीनामेकस्थानकरसबन्धः, तथा रूपकश्रेष्यारोहे सू संपरायस्य चरमश्चिरमादिसमयेषु वर्तमानस्यातीव विशुद्धत्वात् केवल विकस्य संजबद्बन्धस्यैकस्थानकरसबन्धः कथं न | जवतीति शंकनीयम् । स्वल्पस्यापि केवलधिकरसस्य सर्वघातित्वात्, सर्वघातिनां च जघन्यपदेऽपि दिस्थानकरसस्यैवसंजवात्, शुजानामपि प्रकृतीनामत्यन्तशुद्ध वर्तमानश्चतुःस्थानकमेव रसं बध्नाति ततो मन्दमन्दतरविशुद्धौ तु त्रिस्थानकं दिस्थानकं वा, संक्लेशान्धायां वर्तमानस्तु शुभप्रकृतीरेव न वनातीति कुतस्ततरसस्थानक चिन्ता । यास्त्वतिसंक्लिष्टे त्रिन्दुः ॥ १३५ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy