________________
ज्ञान
विन्ः
उनीयं । ये तु चिन्मात्राश्रयविषयमझानमिति विवरणाचार्यमताश्रयिणो वेदान्तिनस्तेषामेकान्तवादिनां महत्यनुपपत्तिरेवा ज्ञानाश्रयत्वेनानावृतं चैतन्यं यत्तदेव तषियतयावृतमिति विरोधात् । न चाखंमत्वाद्यज्ञानविषयश्चैतन्यं त्वाश्रय इत्यविरोधः, अखंमत्वादेश्चिद्रूपत्वे नासमानस्यावृतत्वायोगात्, अचिद्रूपत्वे च जमे आवरणायोगात् । कहिपतनेदेनाखंमत्वादिविषय इति चेन्न,जिन्नावरणे चैतन्यानावरणात्, परमार्थतो नास्त्येवावरणं चैतन्ये,कल्पितं तु शुक्ती रजतमिव तत्तत्राविरुध, तेनैव च चित्त्वाखंमत्वादिनेदकहपनाचैतन्यं स्फुरति नाखमत्वादित्येवंरूपाधीयमाना न विरुक्षेति चेन्न, कहिपतेन रजतेन रजतकार्यवत्कटिपतेनानावरणेनावरणकार्यायोगात् । अहं मां न जानामीत्यनुन्नव एव कर्मत्वांशे श्रावरणविषयकः कटिपतस्यापि तस्य कार्यकारित्वमाचष्टेऽझानरूपक्रियाजन्यस्यातिशयस्यावरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात् , अत एवास्य सा दिप्रत्यक्त्वेन स्वगोचरप्रमाणापेक्ष्या न निवृत्तिप्रसंग इति चेन्न मां न जानामीत्यस्य विशेषज्ञानानावविषयत्वात् , अन्यथा मां जानामीत्यनेन विरोधात्, दृष्टश्चेत्थं न किमपि जानामीत्यादिमध्यस्थानां प्रयोगः । किं च विशिष्टाविशिष्टयोर्जेदानेदान्युपगमं विनाऽखंमत्वादिविशिष्टचैतन्यज्ञानेन विशिष्टावरणनिवृत्तावपि शुधचैतन्याप्रकाशप्रसंगः, विशिष्टस्य कटिपतत्वादविशिष्टस्य चाननुजवात् , महावाक्यस्य निर्धर्मकविषयत्वं चाग्रे निर्लोयिष्यामः । एतेन जीवाश्रयं ब्रह्मविषयं चाहानमिति वाचस्पतिमिश्रान्युपगमोऽपि निरस्तः।जीवब्रह्मणोरपि कटिपतनेदत्वात्, व्यावहारिकलेदेऽपिजीवनिष्ठाविद्यया तत्रैव प्रपंचोत्पत्तिप्रसंगात् । न चाहंकारादिप्रपंचोत्पत्तिस्तत्रेष्टैवाकाशादिप्रपंचोत्पत्तिस्तु विषयपक्षपातिन्या अविद्याया ईश्वरेऽस-||
१ निर्धर्मकब्रह्मविषयत्वम्।
॥१३३ ॥