SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ | स्ति । गौरव इत्यादिजातिशब्दा निमतानामपि क्रियाशब्दत्वात् । गछतीति गौः, आशुगामित्वादश्व इति । शुक्लो, नील इति | गुणशब्दाजिमता श्रपि क्रियाशब्दा एव, शुची जवनातुक्को, नीलनान्नीस इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाजिमता अपि क्रियाशब्दा एव, देव एनं देयात, यज्ञ एनं देयादिति । संयोगिजन्यशब्दाः समवायजन्यशब्दाश्चाजिमताः क्रियाशब्दा एव, दएकोऽस्यास्तीति दएकी । विषाणमस्यास्तीति विषाणीत्य स्तिक्रियाप्रधानत्वात् । पंचतयी तु शब्दानां व्यवहारमा - त्रात्, न तु निश्चयादित्ययं नयः स्वीकुरुते । एतेष्वाद्याश्चत्वारः प्राधान्येनार्थगोचरत्वादर्थनयाः, अन्त्वास्तु त्रयः प्राधान्येन शब्दगोचरत्वाब्दनयाः । तथा विशेषग्राहिणोऽर्पितनयाः, सामान्यग्राहिणश्चानर्पितनयाः । तत्रानर्पितनयमते तुझ्य | मेव रूपं सर्वेषां सिद्धानां भगवताम् । श्रर्पितनयमते त्वेकवित्र्यादिसमय सिद्धाः स्वसमानसमय सिद्धैरेव तुझ्या इति । तथा लोकप्रसिद्धार्थानुवादपरो व्यवहारनयः, यथा पश्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यपदेशः । तात्त्विकार्याच्युपगमपरस्तु निश्चयः, स पुनर्मन्यते पञ्चवर्णो भ्रमरः, बादरस्कन्धत्वेन तहरीरस्य पञ्चवर्णपु सैर्निष्पन्नत्वात्, शुक्लादीनां च न्यग्भूतत्वेनानुपलक्षणात् । श्रथवा एकनयमतार्थग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः । न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः, सर्वनयमतस्यापि स्वार्थस्य तेन प्राधान्यान्युपगमात् । तथा ज्ञानमात्रप्राधान्यान्युपगमपरा | ज्ञाननयाः । क्रियामात्रप्राधान्यान्युपगमपराश्च क्रियानयाः । सूत्रादयश्चत्वारो नयाश्चारित्रलक्षणायाः क्रियाया एव प्राधान्यमन्युपगच्छन्ति, तस्या एव मोक्षं प्रत्यव्यव हितकारणत्वात् । नैगमसंग्रहव्यवहारास्तु यद्यपि चारित्र श्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति, तथापि व्यस्तानामेव, न तु समस्तानां एतन्मते ज्ञानादित्रयादेव मोक्ष इत्यनियमात्,
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy