________________
अध्यात्म
सार
॥ ए ॥
एकैव समता सेव्या तरिः संसारवारिधौ ॥ १२ ॥ दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी ॥ मनः संनिहितं दृष्टं स्पष्टं तु समतासुखम् ॥ १३ ॥ दृशोः स्मरविषं शुष्येत् क्रोधतापः क्ष्यं व्रजेत् ॥ श्रौत्यमखनाशः स्यात् समतामृतमानात् ॥ १४ ॥ जरामरणदावाग्निज्वखिते जवकानने ॥ सुखाय समतैकैव पीयूषघनवृष्टिवत् ॥ १५ ॥ श्राश्रित्य समतामेकां निर्वृता जरता - | दयः ॥ न हि कष्टमनुष्ठानमभूत्तेषां तु किंचन ॥ १६ ॥ श्रर्गला नरकद्वारे मोक्षमार्गस्य दीपिका ॥ समता गुणरलानां संग्रहे । | रोहणावनिः ॥ १७ ॥ मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् || दिव्यांजनशलाकेव समता दोषनाशकृत् ॥ १० ॥ क्षणं | चेतः समाकृष्य समता यदि सेव्यते ॥ स्यात्तदा सुखमन्यस्य यद्वक्तुं नैव पार्यते ॥ १९ ॥ कुमारी न यथा वेत्ति सुखं दयितजोगजम् ॥ न जानाति तथा लोको योगिनां समतासुखम् ॥ २० ॥ नतिस्तुत्यादिकाशंसाशरस्तीत्रः स्वमनित् ॥ समतावर्मगुप्तानां नार्त्तिकृत्सोपि जायते ॥ २१ ॥ प्रचितान्यपि कर्माणि जन्मनां कोटिकोटिजिः ॥ तमांसीव प्रजा जानोः | क्षिणोति समता क्षणात् ॥ २२ ॥ श्रन्यलिंगादिसिद्धानामाधारः समतैव हि ॥ रत्नत्रयफलप्राप्तेर्यया स्याद्भाव जैनता ||२३|| | ज्ञानस्य फलमेषैव नयस्थानावतारिणः ॥ चंदनं वह्निरेव स्यात् कुग्रहेण तु जस्म तत् ॥ २४ ॥ चारित्रपुरुषप्राणाः सम| ताख्या गता यदि ॥ जनानुधावनावेशस्तदा तन्मरणोत्सवः ॥ २५ ॥ संत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् ॥ तदीप्सि |तकरं नैव बीजमुप्तमिवोषरे ॥ २६ ॥ उपायः समतैवेका मुक्तेरन्यः क्रियाजरः ॥ तत्तत्पुरुषजेदेन तस्या एव प्रसिद्धये ॥ २७ ॥
१ ज्ञानसाफल्यमेषैव इति पाठांतरम् ।
अधिकार
ए
॥ ए ॥