________________
| यमानस्तावन्तमपि काल मुख्यतया तदाजासः । किं चान्यतरासिको यदा हेत्वाभासस्तदा वादी निगृहीतः स्यात् न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । नापि हेतुसमर्थनं पश्चाद्युक्तं, निग्रहान्तत्वाघादस्येति । अत्रोच्यते यदा वादी सम्यग्धेतुं प्रतिपद्यमानोऽपि तत्समर्थनन्याय विस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, अ सिद्धतामपि नानुमन्यते, तदान्यतरा सिद्धत्वेनैव निगृह्यते, तथा स्वयमनन्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणं, यथा सांख्यस्य जैनं प्रत्यचेतनाः सुखादय उत्पत्तिमत्त्वात् घटवदिति । साध्यविपरीतव्यातो विरुद्धः । यथाऽपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति । यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः, स घेधा निर्णीत विपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । श्राद्यो यथा नित्यः | शब्दः प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिर्नित्ये व्योमादौ सपक्ष व विपक्षेऽनित्ये घटादावपि निश्चिता । द्वितीयो यथा अभिमतः सर्वज्ञो न जवति वक्तृत्वादिति । श्रत्र हि वक्तृत्वं विपछे सर्वज्ञे संदिग्धवृत्तिकं, सर्वज्ञः किं वक्ताहोस्विन्नेति | सन्देहादेवं स श्यामो मित्रपुत्रत्वादित्याद्यप्युदाहार्यम् । अकिञ्चित्कराख्यश्चतुर्थोऽपि हेत्वाभासनेदो धर्मभूषणोदी रितो न श्रयः, सिद्धसाधनो वाधितविषयश्चेति द्विविधस्याप्यप्रयोजकाह्वयस्य तस्य प्रतीत निराकृताख्यपानासनेदानतिरिक्तत्वात् । न च यत्र पक्षदोषस्तत्रावश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याप्यवश्यं वाच्यत्वापत्तेः । एतेन कालात्ययापदि|ष्टोऽपि प्रत्युक्तो वेदितव्यः । प्रकरणसमोऽपि नातिरिच्यते, तुझ्यवससाध्यतद्विपर्ययसाधकहेतुघ्यरूपे सत्यस्मिन् प्रकृतसा धनयोरन्यथानुपपत्त्य निश्चयेऽसिद्ध एवान्तर्भावादिति संक्षेपः ॥ श्राप्तवचनादाविर्भूतमर्थसंवेदनमागमः । न च व्याप्तिग्रह