________________
गम्यमानत्वादप्रयोगइति सौगतः, तन्न, यत्किञ्चिदचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यव्युत्पन्नान् प्रत्यवश्य| निर्देश्यत्वात् । प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात्ततोऽवगम्यमानस्य पक्षस्याप्रयोगस्य चेष्टत्वात् । श्रवश्यं चान्युपगन्तव्यं हेतोः प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत्साध्यस्यापि तदर्थं पक्षवचनं ताथागतेनापि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसंगात्, मन्दमतिप्रतिपत्त्यर्थस्य चोजयत्राविशेषादिति । किं च प्रतिज्ञायाः | प्रयोगानईत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि, परानुग्रहार्थं शास्त्रे तत्प्रयोगश्च वादे - ऽपि तुख्यः । विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेस्तत एवोपपत्तेरिति । श्रागमात्परेणैव ज्ञातस्य वचनं परार्थानुमानं, यथा बुद्धिरचेतना उत्पत्तिमत्वात् घटयदिति सांख्यानुमानं । श्रत्र हि बुद्धावुत्पत्तिमत्त्वं सांख्येनैवान्युपगम्यते इति, तदेतदपेशलं, वादिप्रतिवादिनोरागमप्रामाण्य विप्रतिपत्तेः । अन्यथा तत एव साध्यसिद्धिप्रसंगात् । परीक्षापूर्वमागमाच्युप| गमेऽपि परीक्षाकाले तद्वाधात् । नन्वेवं जवद्भिरपि कथमापाद्यते परं प्रति, यत्सर्वथैकं तन्नानेकत्र संबध्यते, तथा च सामान्यमिति, सत्यम्, एकधर्मोपगते धर्मान्तरसंदर्शनमात्रतत्परत्वेनैतदापादनस्य वस्तु निश्चायकत्वाभावात्, प्रसंगविपर्ययरू| पस्य मौलहेतोरेव तन्निश्चायकत्वात्, अनेकवृत्तित्वव्यापकानेकत्व निवृत्त्यैव तन्निवृत्तेमलहेतुपरिकरत्वेन प्रसंगोपन्यासस्यापि | न्याय्यत्वात् । बुद्धिरचेतनेत्यादौ च प्रसंग विपर्यय हेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षवाधकप्रमाणस्या| नुपस्थापनात् प्रसंगस्याप्यन्याय्यत्वमिति वदन्ति । हेतुः साध्योपपत्त्यन्यथानुपपत्तियां द्विधा प्रयोक्तव्यो, यथा पर्वतो वह्निमान्, सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्रानुपयोगः । पक्ष