________________
जैनतर्क
| परिजाषा.
॥१३॥
हेतुवचनलक्षणमवयवष्यमेव च परप्रतिपत्त्यङ्ग, न दृष्टान्तादिवचनं, पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्तत्स्मरणस्यापि पक्षहेतुदर्शनेनैव सिझेरसमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात्तत्समर्थनेनैवान्यथासिफेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाविनाजावसाधनं, तत एव च परप्रतीत्युपपपत्तौ किमपरप्रयासेनेति । |मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु योपशमविशेषादेव निपीतपक्षो दृष्टान्तस्मार्यप्रतिवन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवान्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाद्यापि पक्षनि
यस्तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति दृष्टान्तोऽपि । यस्तु दाान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकांदं प्रति च निगमनं । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । स चाय विविधो, विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो विविधः, विधिसाधकः प्रतिषेधसाधकश्च । तत्राद्यः षोढा, तद्यथा-कश्चिध्याप्य एव, यथा शब्दो नित्यः प्रयत्नानान्तरीयकत्वादिति, यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याचनात्मव्याप्यस्यात्र ग्रहणानेदः, वृक्षः शिंशपाया इत्यादेरप्यत्रैवान्तावः। कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यनूतः, तदनावेऽनुपपद्यमानोऽग्निं गमयति । कश्चित्कारणरूपः, यथा वृष्टिविष्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्य|नूतं वर्ष गमयति । ननु कार्याजावेऽपि संजवत्कारणं न कार्यानुमापकं, अत एव न वहिणूंमं गमयतीति चेत्सत्यं, यस्मिन्सामर्थ्याप्रतिवन्धः कारणान्तरसाकव्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा
॥१३॥