________________
जैनतर्क
॥ १२२ ॥
| इति । अत्र बौद्धः सत्तामात्र स्यानजीप्सितत्वाविशिष्टसत्तासाधने चानन्वयाधिकट्पासिद्धे धर्मिणि न सत्ता साध्येत्याह तदसत् इत्थं सति प्रकृतानुमानस्यापि जंगप्रसंगात्, वह्निमात्रस्यानजीप्सितत्वाद्विशिष्टवह्नेश्वानन्वयादिति । अथ तत्र सत्तायां साध्यायां तद्धेतुर्भावधर्मो जावाभावधर्मोऽजावधर्मो वा स्यात् । श्रद्येऽसिद्धिरसिद्धसत्ताके भावधर्मा सिद्धेः । द्वितीये व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधो, जावधर्मस्य जावे क्वचिदप्यसंजवात् । तदुक्तं - "नासिद्धे जावधर्मोऽस्ति व्यभिचार्युजयाश्रयः । धर्मो विरुद्धो जावस्य सा सत्ता साध्यते कथम् ||१||" इति चेन्न इवं वह्निमकर्मत्वादिविक| स्पैर्धूमेन वह्नचनुमानस्याप्युवेदापत्तेः । विकल्पस्याप्रमाणत्वाद्विकप सिद्धो धर्मी नास्त्येवेति नैयायिकः, तस्येत्थंवचनस्यैवानुपपत्तेस्तूष्णींभावापत्तिर्विकप सिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति । इदं त्ववधेयं, विकल्पसिद्धस्य धर्मिणो नाखंड - स्यैव जानमसत्ख्यातिप्रसंगादिति, शब्दादेर्विशिष्टस्य तस्य जानान्युपगमे विशेषणस्य संशयेऽनावनिश्चये वा विशिष्टवैशि व्यजानानुपपत्तेः, विशेषणाद्यंशे आहार्यारोपरूपा विकल्पादिकैवानुमितिः स्वीकर्तव्या । देशकालसत्तालक्षणस्यास्तित्वस्य, | सकलदेशकालसत्ताभावलक्षणस्य च नास्तित्वस्य साधनेन, परपरिकहिपतविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् । वस्तुतस्तु खंशः प्रसिद्धपदार्थोऽस्तित्वना स्तित्वसाधनमेवोचितम् । अत एव " असतो नत्थि सेिहो ” इत्यादिभाष्यग्रन्थे खरविषाणं नास्तीत्यत्र खरे विषाणं नास्तीत्येवार्थ उपपादितः । एकान्तनित्यमर्थक्रियासमर्थ न जवति क्रमयौगपद्याजावादित्यत्रापि | विशेषावमर्शदशायां क्रमयौगपद्यनिरूपकत्वाभावेनार्थ क्रिया नियामकत्वाभावो नित्यत्वादौ सुसाध्य इति सम्यग्निजालनीयं स्वपरसमयदत्तदृष्टिभिः । परार्थ पक्षहेतुवचनात्मकमनुमानमुपचारात्तेन श्रोतुरनुमानेनार्थबोधनात् । पक्षस्य विवादादेव
परिभाषा
॥ १२२ ॥