________________
वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेवासंभवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्रानिधानेऽप्यात्मार्थत्वमेव साध्यं | सिध्यति । अन्यथा संहतपरार्थत्वेन बौश्चक्षुरादीनामन्युपगमादित्यनन्वयादिदोषऽष्टमेतत्सांख्यसाधनमिति वदन्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्य निधानं, परार्थस्य स्वार्थपुरःसरत्वेनानतिभेदज्ञापनार्थम् । व्याप्तिग्रहसमयापेक्षया साध्यं धर्म एवान्यथा तदनुपपत्तेरानुमानिकप्रतिपत्त्यवसरापेक्ष्या तु पक्षापरपर्यायस्तविशिष्टः प्रसिद्ध धर्मी । इत्थं च स्वार्थानुमानस्य त्रीएयंगानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनांगं, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेनाधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् । अथवा पक्षी हेतु रित्यङ्गव्यं स्वार्थानुमाने, साध्यधर्मविशि|ष्टस्य धर्मिणः पक्षत्वादिति धर्मधर्मिभेदाभेदविवक्षया पक्षघ्यं प्रष्टव्यम् । धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिधिकल्पात् | क्वचित्प्रमाणविकल्पाच्याम् । तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । निश्चितप्रामाण्याप्रामाएयप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकपप्रसिद्धत्वम् । तत्र प्रमाण सिद्धो धर्मी यथा धूमवत्त्वादनिमत्त्वे साध्ये पर्वतः स खलु प्रत्यक्षेणानुभूयते । विकल्पसियो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासंभवद्बाधकप्रमाणत्वाअदित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नास्तीति नास्तित्वे साध्ये खरविषाणं, अत्र हि सर्वज्ञखर विषाणे अस्तित्वना स्तित्वसिद्धियां प्राग्विकप सिद्धे । उज्जयसिद्धो धर्मी यथा शब्दः परिणामी कृतकत्वादित्यत्र शब्दः, स हि वर्तमान प्रत्यक्षगम्यः, जूतो जविष्यंश्व विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोजय सिद्धयोर्धर्मिणोः साध्ये कामचारः । विकरूपसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यमिति नियमः । तदुक्तम् - "विकटपसिद्धे तस्मिन् सत्तेतरसाध्ये”