________________
जैनतर्क
॥ १२० ॥
वाचकजावोऽपि तर्केणैवावगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृद्धस्य | चेष्टामवलोक्य तत्कारणज्ञानजनकतां शब्देऽवधारयतोऽन्त्यावयवश्रवणपूर्वावयवस्मरणोपज नितवर्णपदवाक्य विषयसंकलनात्मकप्रत्य जिज्ञानवत्, आवापोघापाच्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकजावप्रतीतिदर्शनादिति । श्रयं च तर्कः | संबन्धप्रतीत्यन्तर निरपेक्षएव स योग्यतासामर्थ्यात्संबन्धप्रतीतिं जनयतीति नानवस्था । प्रत्यक्षपृष्ठनाविविकटपरूपत्वान्नायं प्रमाणमिति बौद्धाः, तन्न, प्रत्यक्षपृष्ठनाविनो विकल्पस्यापि प्रत्यक्ष गृहीतमात्राध्यवसायित्वेन सर्वोपसंहारेण व्याप्तिग्राहक| त्वाभावात्तादृशस्य सामान्य विषयस्याप्यनुमानवत्प्रमाणत्वात् । श्रवस्तुनिर्ज्ञासेऽपि परंपरया पदार्थप्रतिबन्धेन भवतां व्यवहा रतः प्रामाण्यप्रसिद्धेः । यस्त्वग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्यानुपलंन एकस्तदनन्तरमग्नेरुपसंनस्ततो धूमस्येत्युपसंजयं, पश्चादभेरनुपसंजोऽनन्तरं धूमस्याप्यनुपलंच इति धावनुपसंजाविति प्रत्यक्षानुपसंजपश्चकाव्याप्तिग्रह इत्येतेषां सिद्धान्तः । तदुक्तम्- 'धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलंजाच्या मिति पञ्च निरन्वयः ॥ १ ॥ इति । स तु मिथ्या उपलं जानुपलं स्वभावस्य विविधस्यापि प्रत्यक्षस्य सन्निहितमात्र विषयतयाऽविचारकतया च देशादिव्यवहितसमस्तपदार्थ | गोचरत्वायोगात् । यत्तु व्याप्यस्याहार्यारोपेण व्यापकस्याहार्यप्रसञ्जनं तर्कः, स च विशेषदर्शनव विरोधिशंकाकालीनप्रमा| मात्र सहकारी विरोधिशंका निवर्तकत्वेन तदनुकूल एव वा । न चायं स्वतः प्रमाणमिति नैयायिकैरिष्यते, तन्न व्याप्तिग्रदरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्सरानिमततर्कस्यापि क्वचिदेत विचारांगतया विपर्ययपर्यवसायिन | श्राहार्यशंका विघटकतया स्वातंत्र्येण शंकामात्र विघटकतया चोपयोगात् । इत्थं चाज्ञान निवर्तकत्वेन तर्कस्य प्रामाण्यं धर्म
परिभाषा
॥ १२० ॥