________________
जैनतर्क
परिजापा
कारजेदेऽपि चित्रज्ञानवदेकस्य तस्यानुनूयमानत्वात् , स्वसामग्रीप्रनवस्यास्य वस्तुतोऽस्पष्टैकरूपत्वाच्च । इदंतोझेखस्य प्रत्यनिशानिबन्धनत्वात् । विषयाजावानेदमस्तीति चेन्न, पूर्वापरविवर्तवर्येकद्रव्यस्य विशिष्टस्यैतविषयत्वात् । अत एवाग्रहीतासंसर्गकमनुलवस्मृतिरूपं ज्ञानघयमेवैतदिति निरस्तं । इत्थं सति विशिष्टज्ञानमात्रोछेदापत्तेः। तथा प्रत्यक्षान्वयव्यतिरे-|| कानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तमिति केचित् , तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्या सिद्धेः। प्रत्यनिज्ञानस्य साक्षात्प्रत्यदस्मरणान्वयव्यतिरेकानुविधायित्वेनानुनूयमानत्वात् । अन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसंगात् । श्रथपुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्धियं प्रत्यन्निज्ञानमुत्पादयतीत्युच्यते, तदनुचितं, प्रत्यक्षस्य स्मृ|तिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्यापि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ श्रनुमानस्याप्युच्छेदप्रसंगात् । किंच प्रत्यभिजानामीति विलक्षणप्रतीतेरप्यतिरिक्तमेतत् । एतेन विशेष्येन्जियसन्निकर्षसत्त्वाविशेषणाने सति विशिष्टप्रत्यक्षरूपमेतउपपद्यत इति निरस्तम् । एतत्सदृशः स इत्यादौ तदनावात्, स्मृत्यनुनवसंकलनक्रमस्यानुनविकत्वाच्चेति दिक् । श्रत्राह नाट्टानन्वेकत्वज्ञानं प्रत्यनिशानमस्तु, सादृश्यज्ञानं तूपमानमेव । गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात् । तमुक्तम्-"तस्माद्यस्मयते तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥१॥ प्रत्यक्षगावबुझेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसि रुपमानप्रमाणता ॥२॥” इति, तन्न, दृष्टस्य सादृश्यविशिष्टपिंमस्य, स्मृतस्य च गोः, संकलनात्मकस्य गोसदृशो गवय इति ज्ञानस्य, प्रत्यजिज्ञानताऽनतिक्रमात् । अन्यथा गोविसदृशो महिष इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके प्रमाणसंख्याव्याघातप्रसंगात् । एतेन गोसदृशो गवय इत्यतिदेशवाक्या
॥११॥