________________
पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् । कवलजोजिनः कैवल्यं न घटत इति दिकूपटस्तन्न, आहारपर्याप्त्यसातवेद-| नीयोदयादिप्रसूतया कवलजुक्त्या कैवल्याविरोधात्, घातिकर्मणामेव तद्विरोधित्वात् । दग्धरङ्कुस्थानीयात्ततो न तत्प| त्तिरिति चेन्नन्वेवं तादृशादायुषो जवोपग्रहोऽपि न स्यात् । किं चौदारिकशरीर स्थितिः कथं कवलजुक्तिं विना जगवतः | स्यात् । अनन्तवीर्यत्वेन तां विना तदुपपत्तौ बद्मस्थावस्थायामप्यपरिमितबलवत्त्व श्रवणानुक्त्यभावः स्यादित्यन्यत्र विस्तरः । | उक्तं प्रत्यक्षम् । अथ परोक्षमुच्यते - अस्पष्टं परोक्षम् । तच्च स्मरणप्रत्यनिज्ञानतर्कानुमानागमभेदतः पञ्चप्रकारम् । अनुवमात्रजन्यं ज्ञानं स्मरणं, यथा तत्तीर्थकरबिंबम् । न चेदमप्रमाणं, प्रत्यक्षादिवद विसंवादकत्वात् । श्रतीततत्तांशे वर्तमान| त्वविषयत्वादप्रमाणमिदमिति चेन्न, सर्वत्र विशेषणे विशेष्यकालमानानियमात् । अनुभवप्रमात्वपारतंत्र्यादत्राप्रमात्वमिति चेन्न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतंत्र्येणाप्रमात्वप्रसंगात् । अनुमितेरुत्पत्तौ परापेक्षा विषयपरिच्छेदे तु स्वातंत्र्य मि ति चेन्न, स्मृतेरप्युत्पत्तावेवानुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातंत्र्यात् । अनुभवविषयी कृतजावावना सिन्याः स्मृतेर्विषयपरिछेदेऽपि न स्वातंत्र्यमिति चेत्तर्हि व्याप्तिज्ञानादिविषयी कृतानर्थान् परिविन्दन्त्या अनुमितेरपि प्रामाण्यं दूरत | एव । नैयत्येनाजातएवार्थोऽनुमित्या विषयी क्रियते इति चेत्तर्हि तत्तयाजात एवार्थः स्मृत्या विषयी क्रियत इति तुझ्यमिति | न किञ्चिदेतत् । अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्या दिगोचरं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा तातीय | एवायं गोपिएकः, गोसदृशो गवयः, स एवायं जिनदत्तः, स एवानेनार्थः कथ्यते, गोविलक्षणो महिषः, इदं तस्माद्दूरं, इदं तस्मात्समीपं, इदं तस्मात्प्रांशु ह्रस्वं वेत्यादि । तत्तेदंतारूपस्पष्टाकारनेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः, तन्न, चा