________________
जैनतर्क
॥ ११० ॥
व्याप्तिमवगाहमानं वर्धमानं, अधरोत्तरारणि निर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत् यथाऽग्निः प्रय| लाडुपजातः सन् पुनरिन्धनलाचादिवृद्धिमुपागन्नु त्येवं परमशुभाध्यवसायखानादिदमपि पूर्वोत्पन्नं वर्धत इति । उत्पत्तित्रापेक्षया क्रमेणापीनवद्विषयं हीयमानं, परिविन्नेन्धनोपादानसंतत्यग्निशिखावत्, यथाऽपनीतेन्धनाग्निज्वाला परिहीयते तथेदमपीति । उत्पत्त्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एवं निर्मूलं विलीयते | तथेदमपि । केवलप्राप्तेरामरणाघाऽवतिष्ठमानमप्रतिपाति वेदवत् यथा पुरुषवेदादि पुरुषादिपर्यायं तिष्ठति तथेदमपीति । मनोमात्र साक्षात्कारिमनः पर्यवज्ञानं, मनःपर्यायानिदं साक्षात्परिवेत्तुमलं, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिचिनत्तीति प्रष्टव्यम् । द्विविधं शजुमतिविपुलमतिभेदात् । शज्वी सामान्यग्राहिणी मतिरजुमतिः सामान्य| शब्दोऽत्र विपुलमत्यपेक्षयाऽपविशेषपरः, अन्यथा सामान्यमात्रग्राहित्ये मनःपर्यायदर्शनप्रसंगात् । विपुला विशेषग्राहि| मतिर्विपुलमतिः । तत्र रुजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत्परिविद्यत इति । एते च घे ज्ञाने विकलविषयत्वाधिकलप्रत्यक्षे परिभाष्येते । निखिलजव्यपर्यायसाक्षात्कारि केवलज्ञानं । श्रत एवैतत्सकलप्रत्यक्षं, तच्चावरणक्ष्यस्य हेतोरैक्यानेदरहितं श्रावरणं चात्र कर्मैव । स्वविषयेऽप्रवृत्तिमतोऽस्मदा दिज्ञानस्य सावरणत्वादसर्वविषयत्वे व्याप्तिज्ञानाभावप्रसंगात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च । श्रावरणस्य च कर्मणो विरोधिना सम्यग्द| र्शनादिना विनाशात् सिद्ध्यति कैवल्यम् । योगजधर्मानुगृहीतमनो जन्यमेवेदमस्त्विति केचित्तन्न, धर्मानुगृहीतेनापि मनसा
१ मनः पर्याय ।
परिभाषा.
॥ ११८ ॥