________________
व्यक्ताक्षरलानाच्च । श्रनक्रूरश्रुतमु सितादि, तस्यापि जावश्रुतहेतुत्वात् ततोऽपि सशोकोऽयमित्यादिज्ञानाविर्भावात् । श्रथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात्सर्वस्यैव व्यापारस्य श्रुतरूपत्वेऽप्यत्रैव शास्त्रज्ञलोकप्रसिद्धारूढः । समनस्कस्य श्रुतं संशिश्रुतं । तद्विपरीतमसंशिश्रुतं । सम्यक् श्रुतमङ्गानङ्गप्रविष्टं, लौकिकं तु मिथ्याश्रुतं, स्वामित्व चिन्तायां तु नजना, सम्यग्दृष्टिपरिगृहीतं मिथ्या श्रुतमपि सम्यक् श्रुतमेवावितथनाषित्वादिना यथास्थानं तदर्थविनियोगात्, विपर्ययान्मिथ्यादृष्टि परिगृहीतं च सम्यक् श्रुतमपि मिथ्या श्रुतमेवेति । सादि अव्यत एकं पुरुषमाश्रित्य क्षेत्रतश्च जरतैरवते, कालत उत्सर्पिष्यवसर्पिण्यौ जावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् । श्रनादि प्रव्यतो नानापुरुषानाश्रित्य । क्षेत्रतो महाविदेहान्, कालतो नोटत्सर्पिण्यवसर्पिणी लक्षणं । जावतश्च सामान्यतः क्षयोपशममिति । एवं सपर्यवसितापर्यवसितभेदावपि जाव्यौ । गमिकं सदृशपाठं प्रायो दृष्टिवादगतं । श्रगमिकमसदृशपाठं प्रायः कालिकश्रुतगतं । श्रङ्गप्रविष्टं गणधरकृतं अनङ्गप्रविष्टं तु स्थविरकृत - मिति । तदेवं सप्रजेदं सांव्यवहारिकं मतिश्रुतलक्षणं प्रत्यक्षं निरूपितम् । स्वोत्पत्तावात्मव्यापारमात्रापेक्षं पारमार्थिकं, तत्रिविधं श्रवधिमनः पर्यय केवलनेदात् । सकलरूपिषव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमवधिज्ञानं तच्च षोढा, अनु| गामिवर्धमानप्रतिपाती तरनेदात् । तत्रोत्पत्तिक्षेत्रादन्यत्राप्यनुवर्तमानमानुगामिकं जास्करप्रकाशवत्, यथा भास्करप्रकाशः प्राच्यामाविर्भूतः प्रतीची मनुसरत्यपि तत्रावकाशमुद्योतयति, तथैतदप्येकत्रोत्पन्नमन्यत्र गन्नुतोऽपि पुंसो विषयमव - | जासयतीति । उत्पत्तिक्षेत्र एव विषयावभासकमनानुगामिकं, प्रश्नादेशपुरुषज्ञानवत्, यथा प्रश्नादेशः क्वचिदेव स्थाने | संवादयितुं शक्नोति पृष्ठयमानमर्थं, तथेदमपि अधिकृत एव स्थाने विषयमुद्योतयितुमलमिति । उत्पत्तिक्षेत्रात्क्रमेण विषय
१ भाखति ।