________________
जैनतर्क
॥ ११७ ॥
| मेव ज्ञानजनस्वानान्यात् क्वचिदन्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्य तिनेद | इव सौदम्यादवग्रहादिक्रमानुपलक्षणात् । तदेवमर्थावग्रहादयो मनइन्द्रियैः षोढा निद्यमाना व्यञ्जनावग्रहचतुर्भेदैः सहाष्टा| विंशतिर्मतिनेदा जवन्ति । श्रथवा बहुबहुविधक्षिप्रानिश्रित निश्चितध्रुवैः सप्रतिपक्षैर्द्वादश निर्भेदैर्भिन्नानामेतेषां षटूत्रिंशदधिकानि त्रीणि शतानि भवन्ति । बह्वादयश्च भेदा विषयापेक्षाः, तथाहि, कश्चिन्नानाशब्दसमूहमाकर्णितं बहुं जानाति, एतावन्तोऽत्र शंखशब्दा एतावन्तश्च पटहादिशब्दा इति पृथग्निन्नजातीयं क्षयोपशमविशेषात्परिविनत्तीत्यर्थः । अन्यस्त्वस्पक्षयोपशमत्वात्तत्समानदेशोऽप्यबहुं, छापरस्तु क्षयोपशमवैचित्र्याद्बहुविधं, एकैकस्यापि शंखादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाप्याकलनात् । परस्त्वबहुविधं स्निग्धत्वादिस्वस्पधर्मान्वितत्वेनाकलनात् । श्रन्यस्तु क्षिप्रं, शीघ्रमेव परिछेदात् । इतरस्त्वक्षिप्रं चिरविमर्शेनाकलनात् । परस्त्वनिश्रितं, लिङ्गं विना स्वरूपत एव परिछेदात् । अपरस्तु निश्रितं लिंगनिश्रयाकलनात् । ( कश्चित्तु निश्चितं विरुद्धधर्मानासिंगितत्वेनावगते रितरस्त्वनिश्चितं विरुद्धधर्माङ्किततयावगमात् अन्यो ध्रुवं बह्वादिरूपेणावगतस्य सर्वदैव तथाबोधात् । अन्यस्त्वध्रुवं कदाचिद्वह्वादिरूपेण कदाचित्त्वबह्वादिरूपेपावगमात् । इत्युक्ता मतिभेदाः । श्रुतनेदा उच्यन्ते । श्रुतमक्षरसंज्ञिसम्यक्सा दिसपर्यवसितगमिकाङ्गप्रविष्टभेदैः | सप्रतिपदैश्चतुर्दशविधम् । तत्राक्षरं त्रिविधं । संज्ञाव्यञ्जनलब्धिभेदात् । संज्ञाक्षरं बहुविधलिपिजेदं व्यञ्जनाक्षरं जाष्यमाणमकारादि, एते चोपचाराच्छुते, लब्ध्यक्षरं त्विन्द्रियमनोनिमित्तः श्रुतोपयोगस्तदावरणक्षयोपशमो वा एतच्च परोपदेशं विनापि नासंजाव्यं, अनाकलितोप्रदेशानामपि मुग्धानां गवादीनां च शब्दश्रवणे तदानिमुख्यदर्शनात् एकेन्द्रियाणामप्य
| परिभाषा.
॥ ११७ ॥