________________
जैनतर्क
॥ ११६ ॥
वनमव्यक्तसामान्यग्राहि, अर्थावग्रह स्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिरिति, तदसत्, यत आलोचनं व्यञ्जनावग्रहात् पूर्व स्यात् । पश्चाषा ? स एव वा ? नाद्यः अर्थव्यञ्जनसंबंधं विना तदयोगात् । न द्वितीयः व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात्। न तृतीयः व्यञ्जनावग्रहस्यैव नामान्तरकरणात्। तस्य चार्थशून्यत्वेनार्थालोचनानुपपत्तेः । किं वालोचनेनेहं विना ऊटित्येवार्थावग्रहः कथं जन्यतां । युगपच्चेदावग्रहौ पृथगसंख्येयसमयमानौ कथं घटेतामिति | विचारणीयम्। नन्ववग्रहेऽपि क्षिप्रेतरा दिनेदप्रदर्शनादसंख्यसमयमानत्वं विशेष विषयत्वं चाविरुद्ध मिति चेन्न, तत्त्वतस्तेषामपायनेदत्वात्, कारणे कार्योपचारमाश्रित्यावग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेष विषयत्वस्यावास्तवत्वात् । अथवाऽवग्रहो | द्विविधो नैश्वयिको व्यावहारिकश्च श्राद्यः सामान्यमात्रग्राही, द्वितीयश्च विशेष विषयः, तदुत्तरमुत्तरोत्तरधर्माकांक्षारूपेहाप्रवृत्तेः, अन्यथाऽवग्रहं विनेहानुत्थानप्रसंगादत्रैव क्षिप्रेतरादिभेदसंगतिः, श्रत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति षष्टव्यम् । श्रवग्रहीतविशेषाकांक्षणमी हा । व्यतिरेकधर्म निराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत् । यथा श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन जवितव्यं । मधुरत्वादिधर्मयुक्तत्वाद्वांखादिना वेति । न चेयं संशय एव, तस्यैकत्र धर्मिणि | विरुद्धनानार्थज्ञानरूपत्वात्, अस्याश्च निश्चयानिमुखत्वेन विलक्षणत्वात् ॥ ईहितस्य विशेष निर्णयोऽवायः । यथा शब्द एवायं शांख एवायमिति वा । स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधाऽविच्युतिः स्मृतिर्वासना च । तत्रैकार्थो|पयोगसातत्यानिवृत्तिरविच्युतिः, तस्यैवार्थोपयोगस्य कालान्तरे तदेवेत्युलेखेन समुन्मीलनं स्मृतिः, अपायादितः स्मृतिहेतुः | संस्कारो वासना । प्योरवग्रहयोरवग्रहत्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः । केचित्त्वपनयन
परिभाषा
॥ ११६ ॥