________________
| लेखराहित्याभावादिति चेन्न शब्द इति वक्त्रैव जणनात् रूपरसादिविशेषव्यावृत्त्यनवधारणपरत्वाघा । यदि च शब्दोऽय| मित्यध्यवसायोऽवग्रहे नवेत्तदा शब्दोल्लेखस्यान्तर्मुहूर्तिकत्वादर्थावग्रहस्यैकसामायिकत्वं जज्येत । स्यान्मतं शब्दोऽयमिति | सामान्य विशेषग्रहणमप्यर्थावग्रह इप्यतां, तदुत्तरं प्रायो माधुर्यादयः शंखशब्दधर्मा इह, न तु शार्ङ्गधर्माः खरकर्कशत्वादय इती होत्पत्तेरिति, मैवम्, शब्दव्यावृत्त्या विशेषप्रतिजासेनास्यापायत्वात् । स्तोकग्रहणस्योत्तरनेदापेक्षयाऽव्यवस्थितत्वात् । किं च शब्दोऽयमिति ज्ञानं शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामी हां विनाऽनुपपन्नं । सा च नागृहीतेऽर्थे संभवतीति तङ्ग्रहणं श्रस्मदच्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम् । स च व्यंजनावग्रहकालोऽर्थपरिशून्य इति यत्किं| चिदेतत् । नन्वनन्तरं क एष शब्द इति शब्दत्वावान्तरधर्मविषयकेहा निर्देशानुब्दोऽयमित्याकार एवावग्रहोऽभ्युपेय इति चेन्न, शब्दः शब्द इति जापकेणैव जानात् श्रर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात् । श्रव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चास्य तन्मात्रविषयत्वात् । यदि च व्यञ्जनाग्रह एवाव्यक्तशब्दग्रहणमिष्येत, तदा सोऽप्यर्थावग्रहः स्यात् श्रर्थस्य ग्रहणात् । केचित्तु संकेतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणं । परिचितविषयस्य त्वाद्यसमय एव विशेषज्ञान मित्येतदपेक्षया तेन शब्दइत्यवगृहीत इति नानुपपन्नमित्याहुः । तन्न, एवं हि व्यक्ततरस्य व्यक्तशब्द| ज्ञानमतिक्रम्यापि सुबहु विशेषग्रहप्रसंगात् । न चेष्टापत्तिर्न पुनर्जानाति क एष शब्द इति सूत्रावयवस्याविशेषेणोक्तत्वात् । प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्योत्तरोत्तर सुबदुधर्मग्रहणानुपपत्तेश्च । अन्ये त्वाखोचनपूर्वकमर्थावग्रहमाचक्षते, तत्राखो
१ राहिल्यादिति । व्यावृत्त्यवधारणपरत्वाद्वा ।