________________
चेन्न, श्रुतनिश्रितानामप्यवग्रहादीनां संकेतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात्, अन्यासपाटववशेन श्रुतानुसरणमन्तरेणापि विकटपपरंपरापूर्वक विविधवचनप्रवृत्तिदर्शनात् श्रङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वान्मतित्वमेव । यस्तु तत्र श्रुतानुसारी प्रत्ययस्तत्र श्रुतत्वमेवेत्यवधेयम् । मतिज्ञानमवग्रहे हापायधारणात्जेदाच्चतुर्विधम् । श्रवकृष्टो ग्रहोऽवग्रहः, से द्विविधः, व्यञ्जनावग्रहोऽर्थावग्रहश्च । व्यज्यते प्रकटी क्रियतेऽर्थोऽनेनेति व्यञ्जनं कदंबपुष्पगोलका दिरूपाणामन्तर्निवृत्तीन्द्रियाणां शब्दादिपरिणतव्य निकुरंवं तदुभयसंबन्धश्च ततो व्यञ्जनेन व्यञ्जनस्यावग्रहो व्यञ्जनावग्रह इति मध्यमपदखोपी समासः । श्रथाज्ञानमयं बधिरादीनां श्रोत्रशब्दादिसंबन्धवत्तत्काले ज्ञानानुपसंजादिति चेन्न, ज्ञानोपादानत्वेन रात्र | ज्ञानत्वोपचारादन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टा विशेषाद्यनुमेय स्वमज्ञानादितुझ्या व्यक्तज्ञानानुमानाघा एकतेजोऽवयववत्तस्य तनुत्वेनानुपलक्षणात् । स च नयनमनोवर्जेन्द्रियजेदाच्चतुर्धा । नयनमनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहा | सिद्धेः । अन्यथा तयोर्ज्ञेयकृतानुग्रहोपघातपात्रत्वे जलानलदर्शन चिन्तनयोः क्केददाहापत्तेः । रविचन्द्राद्यवलोकने चक्षुषोऽ नुग्रहोपघातौ दृष्टावेवेति चेन्न, प्रथमावलोकनसमये तददर्शनात् । अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्य नैसर्गिकसौम्यादिगुणे चन्द्रादौ चावलोकिते उपघाताजावादनुग्रहा निमानस्योपपत्तेः । मृतनष्टा दिवस्तु चिन्तने इष्टसंगमविनवलाजादिचिन्तने च जायमानौ दौर्वस्योरःक्षतादिवदन विकाशरोमाञ्चोकमा दिलिङ्गकावुपधातानुग्रहौ न मनसः, किं तु मनस्त्वपरिणता निष्टेष्टपुद्गल निचयरूपव्यमनोऽवष्टंजेन हृन्निरुद्धवायु तनेषज्याच्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यका
१ अवग्रहः । २ व्यंजनावग्रहः ।