________________
नयो
॥ ११२ ॥
| परतीर्थिकाः ॥ १२५ ॥ इत्थमेव क्रियावादे सम्यक्त्वोक्तिर्न दुष्यति । मिथ्यात्वोक्तिस्तथाज्ञाना क्रियाविनयवादिषु ॥ १२६ ॥ क्रियायां पक्षपातो हि पुंसां मार्गानिमुख्यकृत् । अन्त्यपुजखजावित्यादन्येन्यस्तस्य मुख्यता ॥ १२७ ॥ क्रियानयः क्रियां ब्रूते ज्ञानं ज्ञाननयः पुनः । मोक्षस्य कारणं तत्र नूयस्यो युक्तयोर्द्वयोः ॥ १२० ॥ विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञानात्प्रवृत्तस्य फलासंवाददर्शनात् ॥ १२७ ॥ क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । यतः स्त्रीनक्ष्यजोगज्ञो न ज्ञानात्सुखितो भवेत् ॥ १३० ॥ ज्ञानमेव शिवस्याध्वा मिथ्यासंस्कारनाशनात् । क्रियामात्रं त्वजव्यानामपि नो | दुर्जनं जवेत् ॥ १३१ ॥ तंकुलस्य यथा वर्म यथा ताम्त्रस्य कालिका । नश्यति क्रिययामुत्र पुरुषस्य तथा मलः ॥ १३२ ॥ बठरश्च तपस्वी च शूरश्चाप्यकृतव्रणः । मद्यपा स्त्री सती चेति राजन्न श्रदधाम्यहम् ॥ १३३ ॥ ज्ञानवान् शीलहीनश्च त्यागवान् धनसंग्रही । गुणवान् जाग्यहीनश्च राजन्न श्रदधाम्यहम् ॥ १३४ ॥ इति युक्तिवशात्प्रादुरुनयोस्तुझ्यकक्षताम् । मंत्रेऽप्याह्वानंदेवादेः क्रियायुग्ज्ञानमिष्टकृत् ॥ १३५ ॥ ज्ञानं तुर्ये गुणस्थाने क्षायोपशमिकं जवेत् । अपेक्षते फले षष्ठगुणस्थानजसंयमम् ॥ १३६ ॥ प्रायः संभवतः सर्वगतिषु ज्ञानदर्शने । तत्प्रमादो न कर्तव्यो ज्ञाने चारित्रवर्जिते ॥ १३७ ॥ क्षायिकं केवलज्ञानमपि मुक्तिं ददाति न । तावन्नाविर्भवेद्यावद्वैश्यां शुद्धसंयमः ॥ १३८ ॥ व्यवधर्मिण आत्मनोऽशे नास्तित्वभागे एकश्चार्वाको नास्तिकः प्रोक्तः, धर्माणामात्मनः शरीरप्रमाणत्वनानात्वादीनामंशे नास्तित्वपक्षे सर्वेऽपि नैयायिकवैशेषिकवेदान्तिसांख्यपातं जलजैमिनीयादयः परतीर्थिका नास्तिका ज्ञेयाः ॥ १२५॥ १२६॥ क्रियायां पक्षपातो मोक्षेच्छया आवेशो हि पुंसां मार्गानुसारिता । तदुक्तं दशाचूर्णौ- "जो अकिरियाबाई सो भविओ अभविओो वा कमपरिखओ सुकपत्रिओ वा, जो किरियावाई सो णियमा भविओ नियमा सुक्कपरिखओ अंतो पुग्गलपरियहस्स सिझर इत्यादि । असियसयं किरियाणं अकिरियवाईण होइ चुलसीई अन्नाणिय सत्तट्ठी वेणईयाणं तु बत्तीसा ॥ १ ॥” इति गाथा । अत्र च क्रियावाद्यादीनां त्रिषष्टयधिकशतत्रयभेदा इति ॥ १२७॥
पदेशः
॥ ११२ ॥