________________
हारे तपोज्ञानसंयमा मुक्तिहेतवः । एकः शब्दर्जुसूत्रेषु संयमो मोक्षकारणम् ॥ १३॥ संग्रहस्तु नयः प्राह जीवो मुक्तः|| सदा शिवः। श्रनवाप्तिन्त्रमात्कंठस्वर्णन्यायात् क्रिया पुनः॥ १४॥ अनन्तमार्जितं ज्ञानं त्यक्ताश्चानन्तवित्रमाः। न चित्रं कलयाप्यात्मा हीनोऽजूदधिकोऽपि वा ॥ १४१॥ धावन्तोऽपि नयाः सर्वे स्युर्जावे कृतविश्रमाः।चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः॥१४॥
सुनिपुणमतिगम्य मन्दधीप्रवेशं प्रवचनवचनं न वापि हीनं नयौघैः । गुरुचरणकृपातो योजयंस्तान् पदे यः परिणमयति शिष्यास्तं वृणीते यशःश्रीः॥ १४३ ॥ गळे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः प्रौढिं प्रौढिमधानि जीतविजयप्राज्ञाः परामैयरुः। तत्सातीर्थ्यवृतां नयादिविजयप्राझोत्तमानां शिशुस्तत्त्वं किंचिदिदं यशोविजय इत्याख्यातृदाख्यातवान् ॥१४॥