________________
नयो
पदेशः
॥१०६॥
परैर्नुना असत्या निखिला नयाः। विदुषां तत्र नैकान्ता इति दृष्टं हि संमतौ ॥ १०॥ बौशादिदृष्टयोऽप्यत्र वस्तुस्पर्शन नाप्रमाः। उद्देश्यसाधने रत्नमनायां रत्नबुधिवत् ॥ ११॥ अयं संक्षेपतो व्यपर्यायार्थतया विधा । व्यार्थिकमते व्यं तत्त्वं नेष्टमतः पृथक् ॥ १२॥ तिर्यगूर्वप्रचयिनः पर्यायाः खलु कल्पिताः। सत्यं तेष्वन्वयि प्रव्यं कुमलादिषु हेमवत् ॥ १३॥ श्रादावन्ते च यन्नास्ति मध्येऽपि हि न तत्तथा। वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥१४॥ श्रयं अव्योपयोगः स्याधिकटपेऽन्त्ये व्यवस्थितः । अन्तरा अव्यपर्यायधीः सामान्य विशेषवत् ॥१५॥ पर्यायार्थमते ऽव्यं पर्यायेन्योऽस्ति न पृथक् । यसैरर्थक्रिया दृष्टा नित्यं कुत्रोपयुज्यते ॥ १६॥ यथा खूनपुनर्जातनखादावेकतामतिः। तथैव क्षणसादृश्याद् घटादौ व्यगोचरा ॥ १७ ॥ तार्किकाणां त्रयो नेदा श्राद्या व्यार्थिनो मताः। सैघान्तिकानां चत्वारः पर्याअसत्या अनिश्चायका निखिला नया नैगमादयो विदुषां नैकान्ता वक्तुं युक्ता इति दृष्टं परीक्षितं समतिग्रन्थे ॥ १०॥ अत्र नयग्रन्थे उद्देश्यं यदभिनिविष्टेतरनयखंडनं तत्साधने तत्साधननिमित्तं बौद्धादिदृष्टयोऽपि बोद्धादिनयपरिग्रहा अपि वस्तुस्पर्शेन शुद्धपर्यायादिवस्तुप्राप्त्या नाप्रमाः फलतो न मिथ्यारूपा इत्यर्थः ॥ ११॥ अयं सामान्यलक्षणलक्षितो नयो द्रव्यार्थिकः पर्यायार्थिकः ॥ १२ ॥ तेषु पर्यायेषु द्रव्यं सत्यं, कल्पिता वासनाविशेषप्रभवविकल्पसिद्धा अपारमार्थिका इति यावत् ॥ १३ ॥ किंतु वितथैः शशविषाणादिभिः काल्पनिकत्वेन सदृशाः सन्तोऽनादिलौकिकव्यवहारवासनावशात, अवितथा इव लक्षिता लोकैरिति शेषः ॥ १४ ॥ अयं द्रव्योपयोगो द्रव्यार्थिकनयजन्यो बोधोऽन्त्ये विकल्पे शुद्धसंग्रहाख्ये व्यवस्थितः पर्यायबुधाऽविचलितः स्यात्, अन्तरा शुद्धसंग्रहशुद्धर्जुसूत्रविषयमध्ये द्रव्यपर्यायधीरेव स्यात् सामान्यविशेषबुद्धिवत् ॥ १५ ॥ पर्यायार्थमते द्रव्यं द्रव्यपदार्थः सदृशक्षणसन्ततिरेव न तु पर्यायेभ्यः पृथगस्ति यद्यस्मात्कारणात्तैः पर्यायैरर्थक्रिया जलाहरणादिरूपा दृष्टा | नित्यमप्रच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु कुत्रोपयुज्यते न कुत्रचिदित्यर्थः ॥ १६॥ १७ ॥ तार्किकाणां वादिसिद्धसेनमतानुसारिणामाद्याः त्रयो भेदाः नैगमसंग्रहव्यवहारलक्षणा द्रव्यार्थिका इति, सैद्धान्तिकानां तु जिनभद्रगणिक्षमाधमणवचनानुसारिणां चत्वार आद्या ऋजुसूत्रसहिता द्रव्याधिका इति । ऋजुसूत्रादयश्चलारः पर्यायाधिका वादिनामिति, शब्दादयः त्रय एव च क्षमाश्रमणानामिति । ऋजुसूत्रो यदि द्रव्यं नाभ्युपेयात्तदा उक्तं " उजुसुयस्स एगे अणुवउत्ते एगं दव्यावस्सयं पुहत्तेणं " इति
॥१०६॥