________________
॥ श्रथ नयोपदेशः ॥
ऐन्द्रधाम हृदि स्मृत्वा नत्वा गुरुपदांबुजम् । नयोपदेशः सुधियां विनोदाय विधीयते ॥ १ ॥ सत्त्वासत्त्वाद्युपेतार्थेष्वपेदावचनं नयः । न विवेचयितुं शक्यं विनापेक्षां हि मिश्रितम् ॥ २ ॥ यद्यप्यनन्तधर्मात्मा वस्तु प्रत्यक्ष गोचरः । तथापि स्पष्टबोधः स्यात् सापेक्षो दीर्घतादिवत् ॥ ३ ॥ नानानयमयो व्यक्तो मतभेदो ह्यपेक्षया । कोट्यन्तरनिषेधस्तु प्रस्तुतोत्क टकोटिकृत् ॥ ४ ॥ तेन सापेक्षजावेषु प्रतीत्यवचनं नयः । श्रजावानावरूपत्वात् सापेक्षत्वं विधावपि ॥ ५ ॥ सप्तनंग्यात्मकं वाक्यं प्रमाणं पूर्णबोधकृत् । स्यात्पदादपरोल्लेखि वचो यश्चैकधर्मगम् ॥ ६ ॥ यथा नैयायिकैरिष्टा चित्रे नैकैकरूपधीः । नयप्रमाणभेदेन सर्वत्रैव तथार्हतैः ॥ ७ ॥ श्रयं न संशयः कोटेरैक्यान्न च समुच्चयः । न विभ्रमो यथार्हत्वादपूर्णत्वाच्च न प्रमा ॥ ८ ॥ न समुद्रोऽसमुद्रो वा समुद्रांशो यथोच्यते । नाप्रमाणं प्रमाणं वा प्रमाणांशस्तथा नयः ॥ ए ॥ स्वार्थे सत्याः
स्मृत्वा श्रीशारदामत्र श्रीभावप्रभसूरिभिः । स्मृत्यर्थं लिख्यते कश्चित्पर्यायो ह्यस्य वृत्तितः ॥ १ ॥ इति । इन्द्र आत्मा तस्य संबंधि ऐन्द्रं धाम तेजः । 'ऐ' इति वाग्बीजमपि स्मृतम् ॥ १ ॥ सत्त्वासत्त्व नित्यानित्यभेदाभेदादयो ये तैरुपेता येऽर्थी जीवपुद्गलादयस्तेषु अपेक्षावचनं प्रतिनियतधर्मप्रकारकापेक्षाख्यशाब्दबोधजनकं | वचनं नयवाक्यमित्यर्थः । इदं वचनरूपस्य नयस्य लक्षणं हि निश्चितं मिश्रितं नानाधर्मैः करंबितं वस्तु अपेक्षां विना विवेचयितुं न शक्यम् ॥ २ ॥ वस्तु घटादिकं | आदीयतेऽनेनेत्यादि ज्ञानं दीर्घताया आदि ज्ञानं दीर्घताप्रत्यक्षवदित्यर्थः ॥ ३ ॥ बौद्धोपनिषदादिदर्शनी नानानयमयः को व्यन्तरस्येतरनयार्थस्य निषेधो निराकरणं । कथंभूतो निषेधः ? प्रस्तुता या उत्कटकोटिस्तत्कृत्, प्रस्तुतकोटेरुत्कटत्यकृदित्यर्थः ॥ ४ ॥ तेन हेतुना परस्परप्रतियोगिकेषु भावेषु विधौ अस्तित्वादिभावेऽपि अभावाभावरूपत्वान्नास्तित्वाद्य भावस्वरूपत्वात् ॥ ५ ॥ सप्तभंग्यात्मकं स्यादस्तयैव स्यान्नास्त्येवेत्यादिकं वाक्यं प्रमाणं । यतः पूर्णबोधकृत् स्यात्कारपदात् ॥ ६ ॥ आर्हतैः जैनसूरिभिः ॥ ७ ॥ अयं नयाख्यो बोधः कोटेः प्रकारस्यैक्यात् संशयो न ॥ ८ ॥ ९ ॥ स्वार्थे स्वविषये सत्या निश्चायकाः परैर्नयैर्नुन्ना अप्रामाण्याशंकाविषयीकृताः ।