SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ नय ॥ १०४ ॥ | क्रियाशब्दा एव ( यथा ) गलतीति गौः, आशुगामित्वादश्वः गुणशब्दा यथा शुची जवतीति शुक्लः, नीलजवनान्नीलः । यदृद्वाशब्दा यथा देव एनं देयात्, यज्ञ एनं देयात् । संयोगसमवायिशब्दा यथा दंगोऽस्यास्तीति दंमी, विषाणमस्यास्तीति | विषाणी अस्तिक्रियाप्रधानत्वादस्त्यर्थे प्रत्ययाश्च । एते सर्वे क्रियाशब्दा एव, अस्ति तू इत्यादिक्रियासामान्यस्य सर्वव्यापित्वात्, उदाहरणं यथा--इन्दनमनुत्नवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यत इति । एतदाजासं लक्ष्यन्ति - क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाजास इति । स्वकीय क्रियारहितं तवस्त्वपि शब्दवाच्यतया प्रतिक्षिपति तचब्दवाच्यमिदं न जवत्येवैतादृश एवंभूताजासः । उदाहरणं यथा - विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूत क्रियाशून्यत्वात्पटवदित्यादिरिति । अनेन हि वाक्येन स्वक्रियारहितस्य घटादेर्वस्तुनो | घटादिशब्दवाच्यतानिषेधः क्रियते स च प्रमाणबाधित इत्येवंभूतनयाजासतयोक्तमिति । एतेषु के पुनरनयाः के पुनः शब्दनयास्तद्दर्शयति- एषु चत्वार श्रद्या नया अर्थनिरूपणायां प्रवीणत्वादर्थनयाः, अग्रेतनास्त्रयो नयाः शब्दवाच्यार्थगोचरतया शब्दनया इति । के पुनर्जेदारतानाह - “ एक्केक्को य सयविहो सत्त नयसया हवंति एमेव । अन्नो वि एसो पंचैव सया नयाणं तु ॥ १ ॥ " व्याख्या सप्तानां नैगमादिनयानामेकैकप्रभेदतः | शतभेद एवं सर्वैरपि भेदैः सप्त शतानि भवन्ति, प्रकारान्तरे पंचापि नयाः कदा ? यदा शब्दादिनिस्त्रिभिर्नयैरेक एव | शब्दनयो विवक्ष्यते तदैकैकस्य शतविधत्वात् पंच शतानि नयानाम्, अपिशब्दः पुनरर्थे । षट् चत्वारि दे वा नयानां | कदा? यदा सामान्यग्राहिनैगमस्य संग्रहेऽन्तर्भावः, विशेषग्राहिनैगमस्य तु व्यवहारेऽन्तर्भावो यदा विवक्ष्यते तदा मूलन प्रदीपः ॥ १०४ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy