SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ तृतीयदं समनिरूढं समर्थयन्ति - पर्यायशब्देषु निरुक्तिनेदेन निन्नमर्थ समजिरोहन् समजिरूढ इति । एतस्यार्थः । | शब्दनयो हि शब्दपर्याय निन्नत्वेऽपि अन्यस्यार्थस्यानेदत्वमभिलषति, समनिरूढनयेन हि शब्दपर्यायनेदे जिन्नं व्यार्थ - मजिमन्यते, पर्यायशब्दानामर्थत एकत्वमुपेक्षते इति । उदाहरणं - इन्दनादिन्द्रः, शकनाठक्रः, पूर्दारणात्पुरन्दर इत्यादि । श्रनेन वाक्येनेन्द्रे शक्रे च पुरन्दरे चेत्याद्येकार्थपर्यायशब्देऽपि व्युत्पत्तिभेदेनैतदर्थस्यापि भेदः समाधियते, शब्दभेदादर्थभेद इति फलितार्थः । एवमन्यत्र कलशघटकुंनादिषु प्रष्टव्यः । समजिरूढाजासमाह - पर्यायध्वनीनामनिधेय| नानात्वमेव कक्षी कुर्वाणस्तदानासः । उदाहरणं यथा - इन्द्रः, शक्रः, पुरन्दर इत्यादयः शब्दा निन्नानिधेया एव निन्नशब्दत्वात्, करिकुरंगतुरंगकरनशब्दवदित्यादिरिति । अत्र हीन्द्रे शक्रे पुरन्दरे च नामैक्येऽपि निन्नशब्दत्वान्निवाच्या एते शब्दाः, यथा कुरंगतुरंगादयो निन्नवाच्यास्तथैतेऽपि ततः समनिरूढानासतया । इति पर्यायार्थिकस्य तृतीयो नेदः । चतुर्थदं समाख्यान्ति - शब्दानां स्वप्रवृत्तिनिमित्तभूत क्रियाविशिष्टमर्थं वाच्यत्वेनान्युपगनुन्नेवंभूत इति । एतस्यार्थः - समनिरूढनयेनेन्दनादिक्रियाविशिष्टमिन्द्रस्य पिंकं जयतु वा मा वा भवतु, परमिन्द्रादिव्यपदेशः लोके व्याकरणे च तथैव रूढित्वात् समनिरूढः । तथा च रूढशब्दानां व्युत्पत्तिः शोजामात्रमेव “ व्युत्पत्तिरहिताः शब्दा रूढा " इति वचनात् । एवंभूतनयो हि यस्मिन् समय इन्दनादिक्रियाविशिष्टमर्थं पश्यति तस्मिन् समय एवेन्द्रशब्दवाच्योऽयमिति मनुते न तु तहितकाल इत्यर्थः । एतन्नयमते तु क्रियाशब्द एव । यद्यपि जाप्यादिषु जातिगुणक्रियासंबन्धियदृछालक्षणा पंचतयी शब्दप्रवृत्तिरुक्ता सा व्यवहारमात्रतोऽवगन्तव्या न निश्चयादित्ययं नयः स्वीकुरुते । तथाहि - जातिशब्दाः
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy