SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कनामार्थविशेष्यकबोधः प्रकृतेऽनपाय एवेति चेन्न, चैत्रः पाक इत्यादौ कर्तृत्वादिसंसर्गेण पाकादेश्चैत्रादावन्वयाबोधाय धात्वर्थप्रकारकबोधेऽपि निपातप्रत्ययान्यतरजन्योपस्थितेर्हेतुत्वान्तरकल्पनाकत्वात् । स्यादेतत् । अत्र नशुधातोर्नाशवति | लक्षणयाऽभेदेनैवास्तु प्रातिपदिकार्थेन सममन्वयः । न च धात्वर्थस्याख्याताद्यर्थ एवान्वयनियमात् कथमेवमिति वाच्यं, | शक्त्यैव धात्वर्थप्रकारकबोधे श्राख्यातादिजन्योपस्थितेर्हेतुत्वात् श्रत एव जानातीत्यादी ज्ञानधातोर्ज्ञानवति लक्षणया प्रातिपदिकार्थेनान्वयसंभवे आख्यातार्थोऽयोग्यत्वान्ननासत इति चिंतामणिकृतोक्तं युक्तम् । अन्यथा निरूपितत्वसंसर्गेण | ज्ञानप्रकारका श्रयत्व विशेष्यकावान्तरशाब्दबोधतद्धेतुत्वादिकल्पने गौरवात् । न च सामान्य॒तो हेतुत्वं क्लृप्तमेवेति क्व गौरवमिति वाच्यम्, तथापि तत्तदाकांक्षाज्ञानादिहेतुताकल्पने गौरवादिति । मैवम् । तथा सति जानातीत्यत्राख्यातार्थसंख्यानन्वयप्रसंगात्, जावनान्वयित्वे वाख्यातार्थसंख्यान्वयात् । श्रथाख्यातार्थसंख्यान्वयो जावनाविशेष्यत्वं न तंत्रं, किं तु प्रथमान्तपदोपस्थाप्यमेवेति न दोष इति चेन्न धात्वर्थप्रकार कबोधसामान्य एवाख्यातादिजन्योपस्थितेर्हेतुत्वान्नक्येतिप्रवेशोगौरवात्, प्रजयतीत्यादावनन्वयप्रसंगाच्च । पाकोऽयमित्यादौ तु स्तोकं पचति स्तोकः पाक इति प्रयोगयोर्विशेषाय घञादीनां धात्वर्थतावच्छेदकविशिष्टे शक्तिस्वीकारान्न दोष इति दिकू । अथ ज्ञातो घट इत्यत्र विषयस्येव नष्टो घट इत्यत्र प्रतियोगिनोऽपि प्रत्यय विशेषार्थत्वान्नान्वयानुपपत्तिरिति चेत्तथापि नाशोत्पत्तिकालेऽपि निष्ठार्थाविरोधात् क्रियमाणं कृत| मित्यन्ययोपपत्तेः पक्व इत्यादाविव सर्वत्र कालवृत्तिता विशेष रूप सिद्धत्वस्य निष्ठार्थत्वात् । तस्य चाद्यसमयावछेदेन साध्य - | त्वेन समम विरोधात् । सिद्धत्वविशिष्टसाध्यतायां वर्तमानार्थत्वात्, प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति हि वैयाकरणाः, चिर
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy