SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नयरहस्य ॥ए ॥ ज्ञानाश्रये घट जानातीति प्रयोगप्रसंगः, न चैवमारंजसमये पचतीति प्रयोगो न स्यात्तदा पाकाजावादिति वाच्यम्, स्थूल- प्रकरणम. कालमादाय तत्समाधानात्, तस्मात् क्रियमाणं कृतमित्यन्वयानुपपत्तिरिति चेन्न । एवं सत्यारंजकाल इव तत्पूर्वकालेऽप्येकस्थूलकालसंजवेन पचतीति प्रयोगप्रसंगाध्यवहारानुकूलप्रयोगादरस्य वस्त्वसाधकत्वात्, अन्यथा पुरुषो व्याघ्र इति प्रयोगात् पुरुषस्यापि व्याघ्रत्वप्रसंगः । किं चैवं नष्टो घटो, नश्यन् घट इत्यादिप्रयोगव्यवस्थायां तव का गतिः, नाशस्योक्तातीतत्वायोगात् । नष्टेऽपि घटे विद्यमाननाशप्रतियोगित्वाचा । अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति || न दोष इति चेन्न, उक्तनियमनंगप्रसंगात् । धातुत्वप्रत्ययत्वादेर्नानात्वात् तन्नियमस्य विशिष्य विश्रान्तिरिति चेन्न, श्रन्ततो धातुपदवत्त्वादिनापि तदनुगमात् । अथान्यत्राप्येकपदोपात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव स्वार्थकालान्वययोः। व्युत्पत्तिवैचिच्यात् , न च पचत्यपि नाविकृतिना प्रागनावमाद्यकृतिध्वंसं चादाय पक्ष्यत्यपाहीदिति प्रयोगप्रसंग इति वाच्यं, श्राद्यकृतिप्रागनावचरमकृतिध्वंसयोर्नविष्यदतीतप्रत्ययार्थत्वादिति चेन्न । जानातीत्यादौ धात्वर्थकालान्वयदर्शनात् । अस्तु वा । तथापि कृत्प्रत्ययार्थोत्पत्तेः प्रातिपदिकार्थे घटे कथमन्वयोऽयोग्यत्वात् । परंपरासंबन्धेन तत्र तदन्वयोपपत्तिरिति चेन्न, विद्यमानघटे न नष्टो घट इति प्रयोगानापत्तेः । वृत्त्यनियामकसंबन्धस्यानावप्रतियोगितानववेदकत्वात् , उत्पत्तेः धात्वर्थे तस्य च प्रातिपदिकार्थेऽन्वयाग्न दोष इति चेन्न, नामार्थयोः साक्षानेदसंबन्धेनान्वयायोगात् । अन्यथा तंमुसंपचतीत्यत्रापि कर्मत्वासंसर्गेण प्रातिपदिकार्थस्य धात्वर्थेऽन्वयप्रसंगात् , अनेदेन निपातान्यनामार्थप्रकारकबोधे समानविशे-IM ए॥ ष्यत्वप्रत्यासत्त्या निपातप्रत्ययान्यतरजन्योपस्थितेर्हेतुत्वात् । नामार्थप्रकारकधात्वर्थविशेष्यकबोधासंचवेऽपि धात्वर्थप्रकार
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy