________________
रिति वाच्यम्, कार्यव्याप्यतावच्छेदकपरिणाम विशेषरूपकारणतायाः कार्यसहवृत्तितानियमात् । श्रत एव कुर्वद्रूपत्वमप्रा. माणिकम्, बीजत्वादिना सांकर्याक्रातिरूपतद सिद्धेरिति निरस्तम् । श्रथैवं चक्रभ्रमणानुपलक्षितदीर्घ क्रियाकाले कुतो न | दृश्यते घटः, यदि क्रियमाणः कृत एवेति चेन्न, क्रियाया दीर्घकालत्वासिद्धेश्वरमसमये तदन्युपगमात् । घटगताभिलाषोत्कर्षवशादेव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात् । तदुक्तम् - "पइसमय कक्कोमी, हिरवेरको घरुगया हिलासोसि । पइसमयकजकोमिं, धूलमई घर्म मिलाएसि ॥ १ ॥ इति” । कृतस्यैव करणे क्रियावैफल्य मि त्यपि न रमणीयम्, क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपपादनात् । कृतमेव क्रिया जनयति, नाकृतम्, असत्त्वात्, | क्रियाजनितत्वाच्च कृतमित्यन्योन्याश्रय इति चेन्न, घटत्वादिनेव घटादिक्रियाजन्यत्वात्तत्र कृतत्वाप्रवेशादार्थादेव समाजात् कृतत्वोपपत्तेः । यदि च क्रियमाणं न कृतं, तदा क्रियासमये कार्याभावात्तत्पूर्वं तत्पश्चाच्च कारणाभावात्तत्कार्य न जबे| देव । सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्त्रोपगमान्नैष दोष इति चेन्न, सामग्री समयस्यैव कार्यव्याप्यत्वोपगमौचित्यात्, | व्याप्तावुत्तरत्वाप्रवेशेन लाघवात्, कारणानावस्यैव कार्याभावव्याप्यत्वेन कारणोत्तरकालेऽपि कार्यासिद्धेश्व । श्रथ क्रिय| माणमित्यत्र वर्तमानत्वमानशोऽर्थः कृतमित्यत्र चातीतत्वं निष्ठार्थः, तत्र वर्तमानत्वं विद्यमानकालवृत्तित्वं श्रतीतत्वं च | विद्यमानध्वंसप्रतियोगिकालवृत्तित्वम्, विद्यमानत्वं च तत्तत्प्रयोगाधारत्वं, प्रयोगत्वं च तत्तदर्थोपस्थित्यनुकूलव्यापारत्वम्, तिप्युच्चारणादिसाधारणं, तदादेर्बुस्थित्ववल्लमादेः शक्यतावच्छेदकतत्तत्कालानुगमकं तच्च वर्तमानत्वमतीतत्वं वा धात्वर्थेऽ न्वेति धातूत्तरप्रत्ययजन्यकालप्रकारकबोधे समान विशेष्यत्वप्रत्यासत्त्या धातुजन्योपस्थितेर्हेतुत्वात् श्रत एव नातीतघट