SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ नयरहस्य प्रकरणम्. किमपीयसि दृढतरक्षोदेन । सियोऽप्येतन्नये सत्त्वयोगात्सत्त्वः, अतति सततमपरापरपर्यायान् गबतीत्यात्मा च स्यादेव। अस्याप्युपदर्शिततत्त्वो भावनिक्षेप एवाभिमतः । तदेवं खक्षिताः सप्तापि नयाः ॥ एतेषु च यद्यपि क्षणिकत्वादिसाधने नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम्, तथापि परेषां तर्क श्व प्रमाणानां स्वरुचिशेषरूपाणामनुग्राहकत्वाऽपयु-| ज्यत इति संजाव्यते । तत्त्वं तु बहुश्रुता विदन्ति । एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षव शरणम् । निश्चयव्यवहारा , जिमतकारणानामानंतर्यपारंपर्यव्यवस्थितानामप्यपेक्षाऽविशेषात् । पूर्वेण परस्योपल्याविशेष इति चेन्न, श्लामात्रशरणत्वात् । क्रियानये स्वविषयसमवधाननियतेतरविषयसमवधानं विशेष इति चेन्न, चरमकारणीजूतक्रियाजनकज्ञानविषयत्वात् ज्ञाननयस्यापि विशेषात् । क्रियानये कार्योपयिको विशेषो, ज्ञाननये तु व्यवहारोपयिक इति चेन्न, ज्ञाननयविशेषस्यापि परंपरया कार्योपयिकत्वात्, पारंपर्यानन्तर्ययोर्विशेषश्चेवामात्रादेवेत्युक्तम् । अत एवेतरकारणविशिष्टं चरमकारणं सामग्रीति सामग्रीलक्षणमन्यत्र निराकृतम्, विनिगमनाविरहात् । न च संबन्धलाघवं विनिगमकं, विशेष्य श्व विशेषणे तत्संबन्धग्रहावश्यकत्वे तदसिझेरिति दिक् ॥ स्यादेतत् । कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयानिमतं कारणं युक्तं, नान्यत्, अत एव । क्रियासिम्ध्येव कुर्वद्रुपत्वोपपत्तौ क्रियमाणं कृतमेवेति वदन्ति।न चैवं कृतकरणासमाप्तिः, सिघस्यापि साधने करणव्यापारानुपरमादिति वाच्यम्, कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेन च यादृशव्यापारवतां दमादीनां पूर्व सत्त्वं, तादृशानामेव तेषां क्वचिद् घटोत्पत्त्यनन्तरमपि संजवेत, तदा तत्पत्तिप्रसंग इति वाच्यम्, स्थूलतत्सत्त्वेऽपि सूदमक्रियाविगमात् । न च तक्रियायां घटोत्पत्तेः प्राक् सत्त्वे तदापि तत्पत्तिप्रसंगोऽसत्त्वे च कार्याव्यवहितपूर्ववृत्तित्वालावेन कारणत्वानुपपत्ति ॥ १॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy