________________
नयरहस्य
॥ ९३ ॥
नष्टे इदानीं नष्ट इति, चिरोत्पन्ने चेदानीमुत्पन्न इति च प्रतीतिः समभिव्याहारविशेषादेतत्कालावचिन्नसाध्यत्वविशिष्ट सि- प्रकरणम्. इत्वोपस्थित्यैव न भवति । इत्थमेव क्रियमाणं कृतमेव, कृतं च क्रियमाणत्वेन जजनीयमिति सिद्धान्तः संगठते । सिद्धत्वविशिष्टसाध्यतायाः सिद्धत्वनियतत्वात्, शुद्ध सिद्धतायाश्च विशिष्टसाध्यताऽनियतत्वात् । अस्तु वा विपरिणामस्वरूपनिष्पत्त्यादिरूपाननुगतैव निष्ठा, समभिव्याहारविशेषादेव बोधविशेषोपपत्तेः । परमुक्तयुक्तेः क्रियाकालो निष्ठाकालं न विरुणश्रीति गंजी रनयमतं कियदिह विविच्यत इति, सत्यम्, निश्चयत इत्थमेव तत्त्वव्यवस्थायामपि व्यवहारतोऽकुर्वतोऽपि नियतपूर्ववर्तिनः कारणत्वाच्युपगमात् । अन्यथा पूर्व कुर्वत्त्वानिश्चये प्रवृत्त्यनुपपत्तिप्रसंगात् । किं चेदं कुर्वद्रूपत्वमपि सह| कारिसंपत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदान्युपगमकष्टेन । न चोपादानोपादेयत्जावनियतैः क्षणैरेव कुर्वद्रूपत्वं नियम्यत इति वाच्यम्, क्षणत्वेन सर्वेषामविशेषादेकस्वभावस्य कुतोऽपि | विशेषायोगात् । किं चैवं कार्ये न कारणानुमानोछेदः, सामान्यतः कारणताग्रहाभावात् । न च सादृश्येन तथाग्रहाद - | दोषः, पूर्वापराननुसंधानेन क्षणिकपक्षे सादृश्यस्यैव ग्रही तुमशक्यत्वादित्यादिकं व्युत्पादितमनेकान्त जयपताकादौ पूर्वसूरिभिः । | अत एव क्रियमाणमेतन्नयेन कृतं कारणचक्रसंपत्त्युत्तरमेव कार्यसिद्धेः । अन्यथा समसमयजावित्वे कार्यकारणभावव्यवस्थायोगानुपादानोपादेयभावस्यापि परस्परोपमर्दनियतस्य क्षणभेदनियतत्वात् । न च वर्तमानत्वमतीतत्वं चैकत्र व्यवहार - सिद्धं, न चानीदृशेऽर्थे प्रमाणावतारः, न च यत्किंचिद्व्यवहारदर्शनात् सर्वत्र तदनाश्वासो न्याय्य इत्यादिकं व्यवहारनि|श्चययोर्मियो विवादमवलोक्य वस्तुस्थितिरन्वेषणीया । फलं पुनर्विचित्रनयवादानां जिनप्रवचनविषयरुचिसंपादनद्वारा राग
॥ ए३ ॥